________________
शलाकापुरुषचरिते ||१३७॥
दशमं पर्व चतुर्थः सर्गः श्रीमहावीरजिन
चरितम् ।
कन्यकाऽन्तःपुरे निन्ये शतानीकेन चन्दना । सा स्वामिकेवलोत्पत्तिं तत्र ध्यायन्त्यवास्थित ।। ५९९ ।। अनर्थमूलं मूला च प . निरवास्यत । अपध्यानवती साऽथ विपद्य नरकं ययौ ।। ६०० ।। नाथोऽपि विहरन् प्राप ग्रामं नाम्ना सुमंगलम् । तस्मिन् सनत्कुमारेन्द्रेणाऽभ्युपेत्याऽभ्यवन्दत ।। ६०१ ॥ ततो जगाम भगवान् सुक्षेत्रे सन्निवेशने । तस्मिन्माहेन्द्रकल्पेन्द्रेणैत्य भक्त्याऽनमस्यत ।।६०२ ।। नाथोऽथ पालकग्रामे ययौ तत्र त्वदृश्यत । वणिजा वायलाख्येन यात्रायै चलता सता ।। ६०३ ॥ अस... कुन भिक्षुः क्षिपाम्यस्यैव मूर्धनि । इति हन्तुं प्रभुं पापः स कृष्ट्वाऽसिमधावत ।। ६०४ ॥ सिद्धार्थव्यन्तरस्तस्य स्वयमेवाऽऽच्छिदच्छिरः । स्वामी च विहरन् प्राप चम्पां नाम महापुरीम् ।।६०५ ॥ तत्राग्निहोत्रशालायां स्वातिदत्तद्विजन्मनः । तस्थौ वर्षाचतुर्मासी द्वादशी स्वाम्युपोषितः ।। ६०६ ।। पूर्णभद्रमाणिभद्रौ यक्षौ तत्र महर्द्धिको । रात्रौ रात्रौ समभ्येत्य पर्यपूजयतां प्रभुम् ।। ६०७ ॥ स्वातिदत्तोऽचिन्तयच्च किमसौ वेत्ति किंचन । देवार्यो यदमुं देवाः पूजयन्ति प्रतिक्षपाम् ।।६०८ ॥ एवं विचिन्त्य जिज्ञासुरेत्य पप्रच्छ स प्रभुम् । देहे शिरःप्रभृत्यंगपूर्णे जीवः क उच्यते ? ।। ६०९ ॥ स्वाम्यपि व्याहरज्जीवः स योऽहमिति मन्यते । स्वातिदत्तोऽप्युवाचैवं सोऽपि कश्छिन्धि संशयम् ।।६१० ॥ भगवान श्रीमहावीरः प्रत्यभाषिष्ट भो द्विज! । शिरःकरप्रभृतिभ्यो विभिन्नः स हि सूक्ष्मकः ।। ६११ ॥ १°माय । २ वेत्ति तत्त्वं हि किंचन ।
द्वादशी वर्षाचातुर्मासी ।
||१३७