________________
त्रिषष्टिशलाका
पुरुषचरिते
॥१३६॥
दधिवाहनराजस्य संपुलो नाम कंचुकी । चम्पावस्कन्द आनीतो राज्ञा मुक्तस्तदैव हि ।। ५८६ ।। तत्रायातो वसुमतीं दृष्ट्वा तत्पादयोर्नतः । विमुक्तकण्ठमरुदत् सद्यस्तामपि रोदयन् ।। ५८७ ।। किंरोदिषीति राज्ञोक्तः साश्रुः प्रोवाच कंचुकी । दधिवाहनराजस्य धारिण्याश्चेयमात्मजा ।। ५८८ ।। तादृग्विभवविभ्रष्टा पितृभ्यां रहिता च हा । इयं वसत्यन्यगृहे दासीवत्तेन रोदिमि ।। ५८९ ।। राजाऽप्यूचे न शोच्येयं संपूर्णाभिग्रहो यया । जगत्त्रयत्राणवीरः श्रीवीरः प्रतिलाभितः ।। ५९० ॥ मृगावत्यप्यभाषिष्ट धारिणी भगिनी मम । इयं तदुहिता बाला ममापि दुहिता खलु ।। ५९१ ।। पंचाहन्यूनषण्मासतपःपर्यन्तपारणम् । कृत्वा धनावहगृहान्निर्ययौ भगवानपि ।। ५९२ ।। वसुधारामथाऽऽदित्सुं लोभप्राबल्यतो नृपम् । व्याजहार शतानीकं सौधर्माधिपतिः स्वयम् ।। ५९३ । नेह स्वस्वामिभावो यद्रत्नवृष्टि जिघृक्षसि । यस्मै ददाति कन्येयं स एव लभते नृप ! ।। ५९४ ।। गृह्णात्विक इत्युक्ता राज्ञा प्रोवाच चन्दना । अयं धनावहः श्रेष्ठी पिता हि मम पालनात् ॥ ५९५ ।। जग्राह वसुधारां तां ततः श्रेष्ठी धनावहः । भूयोऽप्याखण्डलोऽवोचच्छतानीकनरेश्वरम् ।। ५९६ ॥ बाला चरमदेहेयं भोगतृष्णापराङ्मुखी । भविष्यत्यादिमा शिष्योत्पन्ने वीरस्य केवले ।। ५९७ ।। आस्वामिकेवलोत्पत्ति रक्षणीया त्वया ह्यसौ । इत्युक्त्वा मघवा नाथं नत्वा च त्रिदिवं ययौ ।। ५९८ ॥
१ साश्रु । शास्त्रः ।
दशमं पर्व
चतुर्थः
सर्गः
श्रीमहावीर
जिनचरितम् ।
चन्दनावृत्तान्तः ।
॥१३६॥