________________
दशमं पर्व
चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते ||१३५॥
श्रीमहावीरजिन
चरितम् ।
एवं विचिन्त्य सा द्वारे ददौ दृष्टिमितस्ततः । तदा चाऽऽगान्महावीरो भिक्षायै पर्यटन प्रभुः ॥ ५७३ ॥ अहो पात्रमहो पात्रमहो मे पुण्यसंचयः । मुनिर्महात्मा कोऽप्येष भिक्षायै यदुपस्थितः ।। ५७४ ।। चिन्तयित्वेति साऽचालीद्बाला कुल्माषशूर्पभृत् । एकमङ्घि न्यधादन्तर्देहल्या अपरं बहिः ।। ५६५ ॥ निगडैदेहली सा तु समुल्लचितुमक्षमा । तत्रस्थैवाऽऽर्द्रया भक्त्या भगवन्तमभाषत ।। ५७६ ॥ स्वामिन्ननुचितं भोज्यं यद्यप्येतत्तथापि हि । परोपकारैकरत ! गृहाणानुगृहाण माम् ॥ ५७७ ॥ द्रव्यादिभेदसंशुद्धं ज्ञात्वा पूर्णमभिग्रहम् । तस्यै कुल्माषभिक्षायै स्वामी प्रासारयत् करम् ।। ५७८ ॥ अहो धन्याऽहमेवेति ध्यायन्ती चन्दनापि हि । चिक्षेप शूर्पकोणेन कुल्माषान् स्वामिनः करे ।। ५७९ ।। स्वाम्यभिग्रहसंपूर्त्या प्रीतास्तत्राययुः सुराः । वसुधाराप्रभृतीनि पञ्च दिव्यानि च व्यधुः ।। ५८० ॥ तुत्रुटुर्निगडास्तस्यास्तत्पदे काञ्चनानि च । जज्ञिरे नूपुराण्यासीत् केशपाशश्च पूर्ववत् ।। ५८१ ।। सर्वांगीणं च तत्कालं रत्नालंकारधारिणी । श्रीवीरभक्तैर्विदधे विबुधैरथ चन्दना ।। ५८२ ॥ उत्कृष्टनादं विदधू रोदःकुक्षिभरि सुराः । जगुश्च ननृतुश्चोचै रंगाचार्या इवोन्मुदः ।। ५८३ ॥ मृगावतीशतानीको सुगुप्तो नन्दया सह । तत्रैयुः सपरीवाराः श्रुत्वा तं दुन्दुभिध्वनिम् ।। ५८४ ।। आययौ देवराजोऽपि शक्रो मुदितमानसः । संपूर्णाभिग्रहं नाथं नमस्कर्तुं द्रुतद्रुतम् ।। ५८५ ।। १°तद्रुतः । तं द्रुतं ।
चन्दनावृत्तान्तः।
||१३५॥