________________
त्रिषष्टिशलाका
पुरुषचरिते 11938 11
एवं रात्रावप्यपृच्छन्न कोऽप्याख्यत्तथैव च । प्रसुप्ता चन्दनाऽस्तीति चाज्ञासीदृजुधीः स तु ।। ५५९ ।। द्वितीयेऽप्यह्नि नापश्यत्तृतीयेऽपि तथैव ताम् । शंकाकोपाकुलः श्रेष्ठी प्रोचे परिजनं ततः ।। ५६० ॥ मेरे रे कथयत क्वास्ति चन्दना मम नन्दना ? । नाऽऽख्यास्यथ विदन्तश्चेन्निग्रहीष्यामि वस्तदा ।। ५६१ ॥ श्रुत्वेदं स्थविरा तत्र काचिच्चेटीत्यचिन्तयत् । जीविताऽहं चिरतरं प्रत्यासन्ना मृतिर्मम ॥ ५६२ ।। कथिते चन्दनोदन्ते किं मूला मे करिष्यति ? । एवं विचिन्त्य तामाख्यन्मूलाचन्दनयोः कथाम् ।। ५६३ ॥ श्रेष्ठिनोऽदर्शयद्गत्वा चन्दनारोधवेश्म सा । द्वारं चोद्घाटयामास स्वयं श्रेष्ठी धनावहः ।। ५६४ ।। तत्र च क्षुत्पिपासात दवस्पृष्टां लतामिव । निगडैर्यन्त्रितामंयोर्नवात्तां करिणीमिव ।। ५६५ ।। परिमुण्डितमुण्डा च भिक्षुकीमिव चन्दनाम् । अश्रुपूरितनेत्राब्जामीक्षाञ्चक्रे धनावहः ||५६६ ॥ ॥ युग्मम् ॥ विश्वस्ता भव वत्से ! त्वमिति जल्पन्नुदश्रुदृक् । तद्भोज्यार्थं रसवतीं ययौ श्रेष्ठी द्रुतद्रुतम् ॥ ५६७ ।। विशिष्टं तत्र चाऽपश्यन् भोज्यं दैवाद्धनावहः । कुल्माषान् शूर्पकोणस्थांश्चन्दनायै समार्पयत् ॥ ५६८ ।। भुञ्जीथास्तावदेतांस्त्वं यावत्त्वन्निगडच्छिदे । कर्मारमानयामीति जल्पित्वा श्रेष्ठ्यगाद्द्बहिः ।। ५६९ ॥ चन्दनोर्ध्वस्थिता चैवमचिन्तयदहो क्व मे । तस्मिन् राजकुले जन्म क्व चावस्थेयमीदृशी ।। ५७० ।। भवेऽस्मिन्नाटकप्राये क्षणाद्वस्त्वन्यथाभवेत् । स्वानुभूतमिदं मे हि किं संप्रति करोमि हा ।। ५७१ ॥ षष्ठस्य पारणायामी कुल्माषाः सन्ति संप्रति । यद्यायात्यतिथिस्तस्मै दत्त्वा भुजेऽन्यथा न हि ।। ५७२ ॥
दशमं पर्व
चतुर्थः
सर्गः
श्रीमहावीर
जिनचरितम् ।
चन्दना
वृत्तान्तः ।
11938 11