________________
दशमं पर्व
चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते ||१३३॥
सर्गः श्रीमहावीरजिनचरितम् ।
एवं स्त्रैणसुलभेन तुच्छत्वेन दिवानिशम् । तदा प्रभृति ताम्यन्ती तस्थौ मूला दुराशया ।। ५४५ ।। ग्रीष्मोष्मार्तोऽन्यदा श्रेष्ठी वेश्मन्यागमदापणात् । तदाऽघ्रिक्षालको नासीत् कोऽपि दैवात् पुरःसरः ।। ५४६ ।। विनीता चन्दनोत्थाय श्रेष्ठिना वारिताऽपि हि । प्रावर्तत क्षालयितुं तत्पादौ पितृभक्तितः ॥ ५४७ ।। केशपाशस्तदा तस्याः स्निग्धश्यामलकोमलः । निःसहांग्याः परिस्रस्तः क्ष्मातले जलपंकिले ।। ५४८ ॥ वत्सायाः केशपाशोऽयं मा भूद् भूपंकभागिति । लीलायष्ट्योद्दधे श्रेष्ठी तमबध्नाच्च सादरः ।। ५४९ ।। तच्च मूला गवाक्षस्था निरीक्ष्यैवमचिन्तयत् । वितर्कः संवदति स यः पूर्वं कल्पितो मया ।। ५५० ॥ अस्याः स्वयं केशबन्धः पत्नीत्वस्य निबन्धनम् । प्रथम श्रेष्ठिनो नूनं नेदृशी हि पितुः क्रिया ॥ ५५१ ।। उच्छेदनीया तदियं मूलाद्व्याधिरिवोत्थितः । इति निश्चित्य मूलाऽस्थाच्छाकिनीव दुराशया ।। ५५२ ।। क्षणं श्रेष्ठ्यपि विश्रम्य पुनरेव बहिर्ययौ । अमुंडयच्चन्दनां च मूलाऽप्याहूय नापितम् ।। ५५३ ।। पादयोर्निगडान् क्षिप्त्वा चन्दनां बह्वताडयत् । मूला वल्लीमिव वशा विवशा क्रोधरक्षसा ।। ५५४ ।। गृहैकदेशे दूरस्थे मूला न्यधित चन्दनाम् । कपाटसंपुटं दत्त्वा परिवारमुवाच च ।। ५५५ ।। श्रेष्ठिनः पृच्छतोऽप्येतत् कथनीयं न केनचित् । कथयिष्यति यः कोऽपि मत्कोपाग्नेः स आहुतिः ।। ५५६ ।। एवं नियन्त्रणां कृत्वा मूला मूलगृहं ययौ । श्रेष्ठी च सायमायातोऽपृच्छत् क्व ननु चन्दना ? ॥ ५५७ ।। मूलाभयान्न कोऽप्याख्यच्छ्रेष्ठी चैवमबुध्यत । वत्सा मे रमते क्वापि यद्वाऽस्त्युपरि वेश्मनः ।। ५५८ ॥
चन्दनावृत्तान्तः।
१३३॥