________________
त्रिषष्टिशलाकापुरुषचरिते ॥१३२॥
दशमं पर्व चतुर्थः सर्गः श्रीमहावीरजिनचरितम् ।
भ्रष्टा पितृभ्यां प्राप्तेयं निघृणेनामुनाऽधुना । यूथच्युता कुरंगवी लुब्धकेन दुरात्मना ।। ५३२ ।। विक्रेतुं पलवच्चेह स्थापिताऽनेन मूल्यतः । हस्ते हीनस्य कस्यापि हा यास्यति वराक्यसौ ।। ५३३ ।। दत्त्वार्थं बहुमप्यस्य गृह्णाम्येतां कृपास्पदम् । पुत्रीमिव निजां हीमां न क्षमोऽहमुपेक्षितुम् ।।५३४ ॥ विनाऽनर्थं मम गृहे तिष्ठन्त्याः क्रमयोगतः । अस्याः स्वजनवर्गेण भविता संगमोऽपि हि ॥५३५ ।। धनावहो विमृश्यैवं दत्त्वा मूल्यं तदीप्सितम् । निन्ये वसमुती बालां सानुकंपः स्ववेश्मनि ।। ५३६ ।। सोऽपृच्छत् स्वच्छधीस्तां च वत्से ! कस्यासि कन्यका । को वा स्वजनवर्गस्ते मा भैषीर्दुहिताऽसि मे ॥५३७ ॥ महत्त्वेन समाख्यातुं स्वकुलं सापि चाऽक्षमा । न किंचिदूचेऽस्थात्सायं नलिनीव त्वधोमुखी ।। ५३८ ।। मूलां च श्रेष्ठिनीमूचे प्रियेऽसौ दुहिताऽऽवयोः । पाल्या लाल्या च तदियमतियत्नेन पुष्पवत् ।। ५३९ ।। एवं श्रेष्ठिगिरा तत्र गेहेऽवात्सित्स्वगेहवत् । बाला बालेन्दुलेखेव सा नेत्राऽऽनन्ददायिनी ।। ५४० ॥ तस्या विनयवाक्शीलै रञ्जितश्चन्दनोपमैः । चन्दनेत्यभिधां श्रेष्ठी ददौ परिजनैः सह ।। ५४१ ॥ ईषच्च यौवनारम्भं करभोरुरवाप सा । राकारात्रिरिवाम्भोधेः श्रेष्ठिनो ददती मुदम् ।। ५४२ ।। निसर्गतो रुपवती यौवनेन विशेषतः । निरीक्ष्य चन्दनां मूला दध्यावेवं समत्सरा ।। ५४३ ॥ पुत्रीवत्प्रतिपद्याऽपि यद्येतां रुपमोहितः । श्रेष्ठी परिणयेत्तर्हि जीवन्त्यपि मृताऽस्मि ॥ ५४४ ।।
चन्दनावृत्तान्तः।
||१३२॥
१भवता।