________________
त्रिषष्टि
शलाका
पुरुषचरि
11939 11
दधिवाहनराजस्य धारिणीं नामतः प्रियाम् । वसुमत्या समं पुत्र्या तत्र कोऽप्यौष्ट्रिकोऽग्रहीत् ।। ५१९ ।। कृतकृत्यः शतानीकोऽप्यनीकैः परिवारितः । समाजगाम कौशाम्बीं वैरिकैरवभास्करः ।। ५२० ॥ औष्ट्रिकः सोऽपि धारिण्या देव्या रुपेण मोहितः । व्रजज्जगाद पुरतो जनानामिदमुच्चकैः ।। ५२१ ॥ प्रौढा रुपवती चेयं मम भार्या भविष्यति । विक्रेष्ये कन्यकां त्वेतां नीत्वा पुर्याश्चतुष्पथे ।। ५२२ ॥ तच्छ्रुत्वा धारिणी देवी मनस्येवमधारयत् । जाता महती वंशेऽहं शशांकादपि निर्मले ।। ५२३ ॥ महावंशप्रसूतस्य दधिवाहनभूपतेः । पत्नी चास्मि परिणतजैनधर्माऽऽदितोऽपि हि ।। ५२४ ॥ श्रुत्वैतान्यप्यक्षराणि धिग्जीवाम्यघभाजनम् । स्वभावलोल रे जीव ! किमद्याप्यवतिष्ठसे ।। ५२५ ॥ न चेत् स्वयं निःसरसि तथापि हि बलान्मया । निस्सार्यसे सद्य एव नीडादिव विहंगमः ।। ५२६ ॥ इति तद्भर्त्सनोद्विग्ना इव प्राणाः क्षणादपि । तस्या मन्युप्रस्फुटितहृदयाया विनिर्ययुः ।। ५२७ ॥ औष्ट्रिकस्तां मृतां प्रेक्ष्य दध्यावेतां सतीं प्रति । धिग्धिङ्मयैतदुदितं यन्मे पत्नी भविष्यति ।। ५२८ ।। अंगुलीदर्शनेनेव कूष्मांडं दुर्गिरा मम । विपन्नेयं यथा तद्वत् कन्याप्येषा विपत्स्यते ।। ५२९ ॥ एवं विमृश्य साम्ना तामालपन्ननयत् पुरि । कौशाम्ब्यां सोऽथ निदधे विक्रेतुं राजवर्त्मनि ॥ ५३० ।। दैवात्तत्रागतः श्रेष्ठी तामपश्यद्धनावहः । दध्यौ चेत्यनया मूर्त्या न हि सामान्यपुत्र्यसौ ।। ५३१ ॥
दशमं पर्व
चतुर्थः
सर्गः
श्रीमहावीरजिनचरितम् ।
चन्दना
वृत्तान्तः ।
119 39 11