________________
त्रिषष्टिशलाका
पुरुषचरिते
119 30 11
अमात्यमूचे नृपतिर्मत्पुर्यां त्रिजगद्गुरुः । अनात्तभिश्चतुरो मासांस्तस्थौ धिगत्र नः ।। ५०६ ।। ज्ञातव्योऽभिग्रहो भर्तुः संपूर्याऽभिग्रहं यथा । कारयामि पारणकं जगन्नाथं स्वशुद्धये ॥ ५०७ ॥ अमात्योऽप्यब्रवीद् भर्तुर्ज्ञायतेऽभिग्रहो न हि । इति खिद्येऽहमप्युच्चैरुपायः कोऽपि सूत्र्यताम् ।। ५०८ ।। अथ राजा समाह्वाय्य नामतस्तथ्यवादिनम् । उपाध्यायं धर्मशास्त्रविचक्षणमवोचत ।। ५०९ ।। आचाराः सर्वधर्माणां शास्त्रे तव महामते ! । कीर्त्यन्ते तत्समाख्याहि जिनभर्तुरभिग्रहम् ।। ५१० ।। उपाध्यायोऽप्यभाषिष्ट बहवोऽभिग्रहाः खलु । महर्षीणां द्रव्यक्षेत्रकालभावविभेदतः ।। ५११ । अभिग्रहो भगवता गृहीतोऽयमिति ध्रुवम् । विना विशिष्टज्ञानेन ज्ञायते न हि जातुचित् ।। ५१२ ।। राजाऽथाघोषयत्पुर्यां यदभिग्रहिणः प्रभोः । अनेकधोपनेतव्या भिक्षा भिक्षार्थमेयुषः ।। ५१३ ।। राज्ञोऽथाज्ञया श्रद्धया च तथा चक्रे जनोऽखिलः । अपूर्णाभिग्रहः स्वामी भिक्षां जग्राह न क्वचित् ।। ५१४ ।। अम्लानांगस्तथाप्यस्थाद्विशुद्धज्ञानभाक् प्रभुः । व्रीडाखेदाकुलैः पौरैर्वीक्ष्यमाणो दिने दिने ।। ५१५ ।। इतश्च पूर्वं नौसैन्यैः शतानीको निशैकया । गत्वाऽरुणत् पुरीं चम्पां झंपासमसमागमः ॥ ५१६ ॥ चम्पापतिः पलायिष्ट ततश्च दधिवाहनः । बलीयसाऽवरुद्धानां त्राणं नान्यत्पलायनात् ।। ५१७ ।। * यद्ग्रहो घोषितस्तत्र शतानीकेन भुभुजा । तदनीकभटाश्चम्पां स्वेच्छ्या मुमुषुस्ततः ।। ५१८ ।। टि. यद् ग्रहीतव्यम् तद् गृह्णातु इति ।
दशमं पर्व
चतुर्थः
सर्गः
श्रीमहावीरजिन
चरितम् ।
चन्दनावृत्तान्तः ।
1193011