________________
त्रिषष्टिशलाका
दशमं पर्व चतुर्थः
पुरुषचरिते
||१२९॥
सर्गः श्रीमहावीरजिनचरितम् ।
सुगुप्तस्तामुवाचैवं किमुद्विग्नेव लक्ष्यसे । खंडिताऽऽज्ञाऽसि किं केनाप्यपराद्धं मयाऽथवा ।। ४९२ ।। साप्यूचे खंडिता नाज्ञा नापराधस्तवापि च । न पारयामि श्रीवीरमिति खेदाय किन्तु मे ।। ४९३ ।। भिक्षार्थी भगवान् वीरो नित्यमायाति याति च । अनात्तभिक्ष एवायमभिग्रहविशेषतः ।। ४९४ ।। जानीह्यभिग्रहं भर्तुर्न चेज्जानासि तन्मुधा । बुद्धिस्तव महामात्य ! परचित्तोपलक्षिणी ।। ४९५ ।। सुगुप्तोऽपि जगादैवं जगद्भर्तुरभिग्रहः । यथा विज्ञास्यते प्रातः प्रयतिष्ये तथा प्रिये! ॥ ४९६ ।। तदैवाऽऽगान्मृगावत्या वेत्रिणी विजयाह्वया । तयोः श्रुत्वा तमालापं गत्वा देव्याः शशंस च ।। ४९७ ।। तथैव खेदं विदधे मृगावत्यपि तत्क्षणम् । संभ्रान्तश्च शतानीकोऽपृच्छत्तां खेदकारणम् ।। ४९८ ।। किंचिदुन्नमितभ्रूका व्याजहार मृगावती । अन्तर्विषादकालुष्योद्गारच्छुरितया गिरा ।। ४९९ ॥ चराचरं जगदिदं चरैर्जानन्ति भूभुजः । त्वं तु स्वपत्तनमपि न वेत्सि ब्रूमहेऽत्र किम् ।। ५०० ।। त्रैलोक्यपूज्यो भगवान् वीरश्चरमतीर्थकृत् । वसत्यत्रेति किं वेत्सि ? राज्यसौख्यप्रमद्वर ।। ५०१ ।। वेश्म वेश्मानुप्रवेशं भिक्षामपरिगृह्य सः । कुतोऽप्यभिग्रहाद्यातीत्येतज्जानासि किं ननु ? ।। ५०२ ।। धिङ्मा धिक् त्वाममात्यान् धिग्यदत्र परमेश्वरः । अज्ञाताऽभिग्रहोऽनात्तभिक्षस्तस्थावियच्चिरम् ।। ५०३ ।। प्रत्यभाषिष्ट भूपोऽपि साधु साधु शुमाशये! । प्रमादी शिक्षितोऽस्म्येष स्थाने धर्मविचक्षणे! ।। ५०४ ॥ विज्ञायाभिग्रहं प्रातः कारयिष्यामि पारणम् । विश्वस्वामिनमित्युक्त्वा राज्ञा (जा) सचिवमाह्नत ।। ५०५ ॥
चन्दनावृत्तान्तः।
||१२९॥