________________
त्रिष्टिशलाकापुरुषचरिते ॥१२८॥
दशमं पर्व चतुर्थः सर्गः श्रीमहावीरजिनचरितम् ।
देहल्यन्तःस्थितैकाघ्रिर्बहिःक्षिप्ताऽपरांघ्रिका । गृहात प्रतिनिवृत्तेषु सर्वभिक्षाचरेषु च ।। ४८० ॥ यदि मे शूर्पकोणेन कुल्माषान् संप्रदास्यति । चिरेणापि तदैवाऽहं पारयिष्यामि नान्यथा ।। ४८१ ।।
॥त्रिभिर्विशेषकम् ॥ गृहीत्वाऽलक्ष्यमाणाभिग्रहं प्रतिदिनं प्रभुः । उच्चावचेषु गेहेषु भ्रमति स्म यथाक्षणम् ।। ४८२ ।। अभिग्रहवशाभिक्षां दीयमानामगृह्णति । स्वामिनि प्रत्यहं पौरास्ताम्यन्ति स्वात्मनिन्दिनः ।। ४८३ ।। अनात्तभिक्षः स्वाम्येवं द्वाविंशतिपरीषहीम् । सहमानोऽनयन्मासांश्चतुरः प्रहरानिव ।। ४८४ ॥ भिक्षार्थमन्यदा स्वामी सुगुप्तामात्यवेश्मनि । प्रविवेश ददृशे च दूरादपि च नन्दया ।। ४८५ ॥ अयमहन्महावीरो दिष्ट्या मद्ऽगृहमागतः । इति ब्रुवाणाऽभ्युत्तस्थौ नन्दाऽऽनन्देन पूरिता ॥ ४८६ ।। कल्पनीयानि भोज्यानि साऽभिज्ञा समुपानयत् । स्वाम्यप्यभिग्रहवशात्तान्यनादाय निर्ययौ ।। ४८७ ।। धिगहं मन्दभाग्याऽस्मि न पूर्णो मे मनोरथः । इति खेदं दधारोच्चैर्नन्दा मन्दमनाः सती ।। ४८८ ॥ तां सखेदां च दास्यूचे देवार्योऽयं दिने दिने । अनात्तभिक्षो निर्याति न खल्वद्यैव निर्गतः ।। ४८९ ।। एवमाकर्ण्य नन्दाऽपि बुबुधे यदभिग्रहः । विशिष्टः कोऽपि तन्नोपादत्तेऽसौ प्रासुकान्यपि ।। ४९० ॥ स्वामिनोऽभिग्रहो ज्ञेयः कथं न्विति विचिन्तया । निरानन्दैव नन्दाऽस्थात् सुगुप्तस्तां ददर्श च ।। ४९१ ॥
चन्दनावृत्तान्तः।
||१२८॥
१तु।