________________
दशमं पर्व
चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते ॥१२७॥
सर्गः श्रीमहावीरजिनचरितम् ।
प्रात थोऽपि संहृत्य प्रतिमामेकरात्रिकीम् । क्रमेण विहरन् प्राप पुरं भोगपुराभिधम् ॥ ४६७ ॥ माहेन्द्रक्षत्रियस्तत्र जिनेन्द्रं प्रेक्ष्य दुर्मतिः । खर्जूरीयष्टिमुद्यम्य प्रजिहीर्षुरधावत ।। ४६८ ।। चिरदर्शनसोत्कंठो द्रष्टुं च स्वामिनं तदा । आगात् सनत्कुमारेन्द्रस्तत्राऽपश्यच्च तं शठम् ।। ४६९ ।। निर्भय॑ च क्षत्रियं तमिन्द्रः प्रभुमवन्दत । भक्त्या सुखविहारं चाऽपृच्छत् स्वं च पदं ययौ ।। ४७० ।। नन्दिग्रामं ययौ ग्राम विहरन् भगवानपि । नन्दिना पितृमित्रेण भक्तितस्तत्र चार्च्यत ।। ४७१ ।। ग्रामेऽथ मेण्ढकग्रामे भगवान् विहरन् ययौ । दधावे तत्र हन्तुं च गोपालो वालरज्जुभृत् ।। ४७२ ।। कूर्मारग्रामवत्तत्र घन्तमेत्य पुरन्दरः । गोपं निवारयामास ववन्दे च जगद्गुरुम् ।। ४७३ ।। ततो निष्क्रम्य भगवान् कौशाम्बी नगरी ययौ । राजा तस्यां शतानीकः परानीकभयंकरः ।। ४७४ ।। चेटकोर्वीशदुहिता तद्राज्ञी च मृगावती । श्राविका तीर्थकृत्पादपूजानिष्ठा सदैव हि ।। ४७५ ।। राज्ञस्तस्य च सचिवः सुगुप्तो नाम तत्प्रिया । नन्दा नाम श्राविकेति मृगावत्याः परा सखी ।। ४७६ ।। श्रेष्ठी धनावहो नाम्ना तत्र चाऽऽसीन्महाधनः । मूलाऽभिधाना तस्यापि गृहिणी गृहकर्मठा ।। ४७७ ।। तत्र स्वामी पोषमासबहुलप्रतिपद्दिने । दुराचरं दुर्ग्रहं च जग्राहैवमभिग्रहम् ।। ४७८ ॥ अयोनिगडबद्धांघ्रिमुण्डिताऽनशिता सती । रुदती मन्युना राजकन्याऽपि प्रेष्यतां गता ।। ४७९ ।। १°भय॑त् क्ष।
चन्दनावृत्तान्तः ।
||१२७॥