________________
त्रिषष्टिशलाकापुरुषचरिते ||१२६॥
दशमं पर्व चतुर्थः सर्गः श्रीमहावीरजिनचरितम् ।
स प्रणम्य जगन्नाथमित्यूचे रचिताञ्जलिः । अशेषजीवजीवातो ! त्वमेव मम जीवदः ।। ४५४ ॥ अनेकदुःखनिलयाद्विमुच्यन्ते भवादपि । त्वत्पादौ शरणं प्राप्ताः किं पुनः कुलिशादहम् ।। ४५५ ।। अहं पूर्वभवेऽप्यज्ञोऽकार्ष बालतपः प्रभो ! । अज्ञतासहितं प्रापमासुरेन्द्रयं च तत्फलम् ।। ४५६ ।। मया स्वयमनर्थोऽयमज्ञानादात्मनः कृतः । इदमेव कृतं सुष्ठु यत्त्वं शरणमाश्रितः ।। ४५७ ॥ शरणं प्राग्भवेऽपि त्वामकरिष्यमहं यदि । प्राप्स्यमप्यच्युतेन्द्रत्वमहमिन्द्रत्वमप्यथ ।। ४५८ ॥ यदि वा कृतमिन्द्रत्वैः सर्वं प्राप्तं मया प्रभो ! । जगत्रितयनाथ ! त्वं नाथः प्राप्तोऽधुनापि यत् ।। ४५९ ।। सश्रद्धमभिधायैवं नत्वा च परमेश्वरम् । पुर्यां चमरचंचायां जगाम चमरासुरः ।। ४६० ॥ तत्र सिंहासनाऽऽसीनश्चमरेन्द्रस्त्रपानतः । अवोचत स्वागतिकान्निजान सामानिकादिकान् ॥ ४६१ ॥ यथा हि मध्यस्थतया शक्रो युष्माभिरौच्यत । स तथैव परं मोहादज्ञायि न मया तथा ।। ४६२ ॥ तत्सभामगम सिंहकन्दरामिव जंबुकः । उपेक्ष्यमाणस्तल्लोकैः कौतुकस्य दिदृक्षया ।। ४६३ ।। शक्रनिर्मुक्तकुलिशात् कृच्छ्रान्मुक्तो गतोऽस्म्यहम् । शरणं वीरचरणौ सुरासुरनमस्कृतौ ।। ४६४ ।। श्रीवीरशरणस्थोऽहं जीवन्मुक्तो बिडौजसा । इहाऽऽगच्छं चलत भो ! गत्वा वन्दामहे जिनम् ।। ४६५ ।। इत्युक्त्वा सपरीवारश्चमरः प्रभमाययौ । नत्वा चक्रे च संगीतं जगाम स्वां पूरी ततः ॥ ४६६ ॥ १ अज्ञानस।
चमरोत्पातवर्णनम् ।
॥१२६॥