________________
त्रिषष्टिशलाकापुरुषचरिते ||१२३॥
दशमं पर्व चतुर्थः सर्गः श्रीमहावीरजिनचरितम् ।
नाभीमंडलसंलीनफणिफूत्कारदारुणः । शैलचूलाग्रसंलग्नजानूज्जनितविस्मयः ।। ४१५ ।। पादावष्टंभविधुरीकृतभूमंडलोऽथ सः । समुत्पपात दन्धिः सौधर्माधिपति प्रति ।। ४१६ ॥
॥पञ्चभिः कुलकम् ।। ऊर्जितैर्गर्जितैः सर्वं ब्रह्माण्ड स्फोटयन्निव । व्यन्तरान् भीषयमाणो भीष्मोऽन्तक इवापरः ।। ४१७ ॥ ज्योतिष्कांस्त्रासयन्नुच्चैः कुरंगानिव केसरी । क्षणात्प्रापातिसूर्येन्दुमंडलः शक्रमंडलम् ।। ४१८ ।। निलिल्यिरे किल्बिषिकास्तत्रसुश्चाभियोगिकाः । सेनान्योऽपि समं सैन्यैरकस्मादपि दुद्रुवुः ।। ४१९ ।। पलायन्ते स्म दिक्पालाः सोमवैश्रवणादयः । वेगेनापततस्तस्माद्भयंकरमहातनोः ।। ४२० ।। आत्मरक्षरस्खलितो वेत्रिणाऽप्यनिवारितः । किमेतदिति संभ्रान्तैस्त्रायस्त्रिशैर्निरीक्षितः ।। ४२१ ।। सकोपविस्मयैर्दृष्टः सोऽथ सामानिकैय॑धात् । एकं क्रमं पद्मवेद्यां सुधर्मायामथापरम् ।।४२२।। ।। युग्मम्।। परिघेणेन्द्रकील त्रिस्ताडयित्वा स दुर्मदः । उत्कटां भ्रकुटिं बिभ्रच्छक्रमेवमवोचत ।। ४२३ ॥ एवंविधानां वृन्देन षिड्गानामिव नाकिनाम् । ओजसा किं बिडोजस्त्वं ममोपर्यवतिष्ठसे ? ॥ ४२४ ॥ अधुना पातयामि त्वामधस्तादात्मनोऽपि हि । मुधा चिरं स्थितोऽसीह शैलाग्र इव मौकुलिः ।। ४२५ ॥ पुर्याश्चमरचंचायाः स्वामिनं चमरासुरम् । किं मामपि न जानासि विश्वासह्यपराक्रमम् ॥ ४२६ ।। केसरीव व्याधहक्कां तादृक्षं परुषं वचः । अनाकर्णितपूर्वीन्द्रः सिष्मियेऽथ विसिष्मिये ।। ४२७ ॥
चमरोत्पातवर्णनम् ।
॥१२३॥