________________
दशमं पर्व
| चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते ||१२४॥
| सर्गः श्रीमहावीरजिनचरितम् ।
ज्ञात्वाऽवधेस्तं चमरं रे रे नश्येत्यथ ब्रुवन् । भूकुटीमिव दुर्दर्श शक्रो दंभोलिमुद्दधे ।। ४२८ ॥ सारं कल्पानलस्येव विद्युतामिव संचयम् । वृन्दीभूतमिवौर्वाग्निज्वालेद्धं सोऽमुचत्पविम् ।। ४२९ ।। तडत्तडिति कुर्वाणं त्रस्तगीर्वाणवीक्षितम् । गीर्वाणपतिमुक्तं तच्चमरं प्रत्यधावत ।। ४३० ॥ अर्कतेज इवोलूको द्रष्टुमप्यक्षमः पविम् । वल्गुलीवोर्ध्वपादोऽधोमौलिर्बभ्रंश सोऽसुरः ।। ४३१ ॥ भगवन्तं महावीरं प्रपित्सुः शरणं ततः । द्राक् पलायिष्ट चमरश्चमरश्चित्रकादिव ।। ४३२ ।। महाहेरिव मंडूक उरभ्र इव दन्तिनः । कुञ्जरः शरभस्येव गरुडस्येव पन्नगः ।। ४३३ ।। अनात्मः कथमरे युयुत्सुरसुराधमः । शक्रस्यास्फलित इति स नश्यअहसेऽमरैः ।।४३४।। ।। युग्मम्।। योऽभूत्तादृग्महादेहो लघुदेहः क्षणेन सः । वाताहत इवाम्भोदस्त्वरितत्वरितं ययौ ।। ४३५ ॥ तस्याणूकृतरुपस्य गोधाया इव पृष्ठतः । समापतन्नशोभिष्ट ज्वालाजालाकुलोऽशनिः ॥ ४३६ ॥ इतश्च वजे निर्मुक्तमात्रे वज्रीत्यचिन्तयत् । नासुराणामिहाऽऽगन्तुं शक्तिः संभवति स्वतः ॥४३७ ।। अर्हन्तमर्हच्चैत्यं वा महर्षि कंचनाथ वा । मन्ये मनसिकृत्याऽसौ जातशक्तिरिहाययौ ।। ४३८ ।। विचिन्त्येत्यवधेः शक्रोऽज्ञासीत् स्वामिप्रभावतः । तत्राऽऽयातं चमरेन्द्र यान्तं स्वामिनं प्रति ।। ४३९ ।। हा हा हतोऽस्मीति वदन्निन्द्रः कुलिशवर्मना । द्रुतद्रुतमधाविष्ट त्रुटद्धारादिभूषणः ।। ४४० ।। १ शक्रेणोत्रासित इति ।
चमरोत्पातवर्णनम् ।
।।१२४॥