________________
त्रिषष्टिशलाका
पुरुषचरित ॥ १२२ ॥
1
अमी सामानिकाः शक्रं शक्तमाचक्षते यथा । भविष्यति तथा किंचिन्न खल्वेते ममाहिताः ।। ४०२ ।। कार्यगतिर्विषमा च दैवाच्चेन्मे पराजयः । तदा कं शरणं यास्याम्यमुष्मादधिकौजसः । ४०३ ॥ एवं विचिन्त्य प्रायुंक्तावधि सोऽथ ददर्श च । सुंसुमारपुरे वीरस्वामिनं प्रतिमास्थितम् ॥ ४०४ ॥ निश्चित्य शरणीकार्यं श्रीवीरं चमरासुरः । उत्थायाऽगात् प्रहरणशालां तुंबालयाह्वयाम् ।। ४०५ ।। जग्राह तत्र परिघं मृत्योर्भुजमिवापरम् । द्विस्त्रिश्च चालयामास तिर्यगूर्ध्वं च स द्रुतम् ।। ४०६ ।। वीर इत्यसुरस्त्रीभिर्वीक्ष्यमाणः सकामनम् । उत्साह्यमानो भुवनपतिभिः कौतुकार्थिभिः ।। ४०७ ।। उपेक्ष्यमाणोऽज्ञ इति निजैः सामानिकासुरैः । पुर्याश्चमरचंचाया निर्ययौ चमरासुरः ॥ ४०८ ॥ ॥ युग्मम् ॥ क्षणाच्छ्रीवीरमासाद्य मुक्त्वा परिघमायुधम् । स त्रिः प्रदक्षिणीकृत्य नत्वा चैवं व्यजिज्ञपत् ॥ ४०९ ।। भगवंस्त्वत्प्रभावेण शक्रं जेष्यामि दुर्जयम् । सोऽत्यन्तं बाधते मां हि मन्मूर्ध्नः उपरि स्थितः ॥ ४१० ॥ इत्युक्त्वाऽऽदाय परिघमैशान्यामुपसृत्य च । सद्यो विचक्रे स्वं रूपं प्रमाणे लक्षयोजनम् ।। ४११ ।। मूर्तीभूतमिव व्योम श्यामच्छविमहातेनुः । नन्दीश्वरमहाद्वीपाञ्जनाद्रिरिव जंगमः ।। ४१२ ।। दंष्ट्राक्रकचभीमास्यो विलोलश्यामकुन्तलः । वक्त्रकुंडोच्छलज्ज्वालाजालपल्लविताम्बरः ।। ४१३॥ पृथुवक्षःस्थलाभोगस्थगितादित्यमंडलः । दोर्दंडप्रेंखणभ्रश्यद्ग्रहनक्षत्रतारकः ।। ४१४ ।। १ चुपाल। चुंपाल । २ "तनु ।
दशमं पर्व
चतुर्थः
सर्गः
श्रीमहावीर
जिनचरितम् ।
चमरोत्पातवर्णनम् ।
11933 11