________________
दशमं पर्व चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते ॥१२१॥
सर्गः श्रीमहावीरजिनचरितम् ।
अप्रार्थितप्रार्थकोऽयं को नु मे शिरसि स्थितः । दुरात्मा विलसत्येवं निर्लज्जः सुरपांसनः ।। ३८९ ।। सामानिकाधास्ते मूर्ध्नि निबद्धाञ्जलयोऽवदन् । अयं सौधर्मकल्पेन्द्रो महौजाश्चण्डशासनः ।। ३९० ।। तच्छुत्वाऽभ्यधिकं क्रुद्धो भृकुटीभीषणाननः । नासासूत्कारपर्यस्तचामरश्चमरोऽवदत् ।। ३९१ ।। मद्विक्रमानभिज्ञाः स्थ तयूयं तं प्रशंसथ । एष वो दर्शयिष्यामि स्वबलं तस्य पातनात् ।। ३९२ ।। उच्चस्थानस्थितो दैवात् प्रभु तावताऽप्ययम् । गजशारीनिविष्टः किं काकोलो रथिकी भवेत् ? ॥३९३ ॥ यत् स्थितस्तत् स्थितोऽसौ भो मयि क्रुद्ध त्वतः परम् । न स्थास्यत्युदिते हर्के न तेजांसि तमांसि च ॥३९४ ॥ अथ सामानिकाः प्रोचुरयं पूर्वभवार्जितैः । पुण्यैर्दिविषदीशोऽभूदधिकद्धिपराक्रमः ।। ३९५ ।। त्वं स्वपुण्यानुमानेन प्रभुरस्मादृशामभूः । पुण्याधीनो हि विभवस्तदीामिह मा कृथाः ।। ३९६ ॥ विक्रमोपक्रमो ह्यस्मिन् क्रियमाणस्त्वया भवेत् । उपहासाय पाताय शरभस्याम्बुदेष्विव ।। ३९७ ॥ तत्पशाम्य सुखं तिष्ठ भुक्ष्व भोगान् यथासुखम् । विनोदान पश्य विविधान सेव्यमानोऽस्मदादिभिः ।।३९८ ।। अथ तांश्चमरोऽवोचधूयं तद्भीरवो यदि । ननु तत्तिष्ठतात्रैव यास्याम्येकोऽपि तद्युधि ।। ३९९ ॥ सुराणामसुराणां च स्यादिन्द्रः सोऽथवाऽप्यहम् । प्रत्याकारे यदेकस्मिन् युगपन्न ह्यसिद्वयम् ।। ४०० ।। इत्युर्जितं स गर्जित्वा समुत्पिपतिषुर्दिवि । किंचिज्जातविवेकः सन् भूयोऽप्येवमचिन्तयत् ।। ४०१ ॥ १ च। २ घे
चमरोत्पातवर्णनम् ।
||१२१॥