________________
| दशमं पर्व
चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते ॥१२०॥
सर्गः श्रीमहावीरजिनचरितम् ।
फलं प्राक्कर्मणामत्र प्राप्यते हि शुभाशुभम् । सेव्यसेवकभावेन तज्जनेष्वनुमीयते ॥३७६ ।। गृहवासं परित्यज्य स्वजनान्प्रतिबोध्य च । एष्यदभवे फलप्राप्त्यै चरिष्यामि तपो यतः ।। ३७७ ।। मासैरष्टभिरह्ना च पूर्वेण वयसाऽऽयुषा । तत्कर्तव्यं मनुष्येण येनान्ते सुखमेधते ।। ३७८ ॥ एवं विचिन्त्य स प्रातर्भोजयित्वा स्वकाञ्जनान् । आपृच्छ्य च व्रतकृते स्वपदे तनयं न्यधात् ।। ३७९ ॥ स्वयं च नाम्ना प्राणामं तापसव्रतमाददे। चतुःपुटं दारुमयं भिक्षापात्रमथाग्रहीत् ॥३८० ॥ आरभ्य तद्दिनादेव सदा षष्ठानि सोऽकरोत् । आत्मानमातापनया क्रशयामास चाऽन्वहम् ।। ३८१ ।। प्राप्ते च पारणदिने भाजनं तच्चतुःपुटम् । गृहीत्वा प्रययौ भिक्षाकृते मध्यंदिनक्षणे ।। ३८२ ॥ क्षिप्तामाद्ये पुटे भिक्षां पान्थादीनामदत्त सः । द्वितीयपुटभिक्षां च काकादिभ्यः पुनर्ददौ ।। ३८३ ।। मत्स्यादिजलचारिभ्यस्तृतीयपुटगामदात् । रागद्वेषौ विनाऽभुक्तं चतुर्थपुटगां स्वयम् ॥ ३८४ ॥ एवं द्वादशवर्षाणि कृत्वा बालतपः स तु । बिभेलसन्निवेशस्यैशान्यामनशनं ललौ ।। ३८५ ॥ मासं सोऽनशनं कृत्वा मृत्वा बालतपोवशात् । अभूच्चमरचंचायां चमरेन्द्रोऽर्णवस्थितिः ।। ३८६ ।। उत्पन्नमात्रो भुवनान्तराण्यवधिचक्षुषा । द्राक् पश्यन्नूर्ध्वमपि हि सौधर्मेन्द्रं ददर्श सः ।। ३८७ ।। स्थितं विमाने सौधर्मावतंसे वज्रधारिणम् । शक्रं महद्धिं स प्रेक्ष्य क्रुद्धोऽवोचदिति स्वकान् ।। ३८८ ॥ १तु।
अन्ये उपसर्गाः।
||१२०॥