SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ASS दशमं पर्व चतुर्थः त्रिषष्टिशलाकापुरुषचरिते ॥११९॥ सर्गः श्रीमहावीरजिनचरितम् । धिगहो मन्दभाग्योऽस्मि मुधा मम मनोरथः । यदतिक्रम्य मद्वेश्माऽन्यत्र प्रभुरपारयत् ।। ३६३ ।। पारियत्वा प्रभुरपि विहरन्नन्यतो ययौ । तत्रोद्याने पार्श्वशिष्यः केवल्यथ समाययौ ।। ३६४ ॥ राजा लोकश्च तं गत्वा पप्रच्छ भगवन्निह । नगर्यां को महापुण्यसंभारोपार्जको जनः ? ।। ३६५ ।। जीर्णश्रेष्ठीति सोऽप्याख्यल्लोकोऽप्यूचे कथं ह्यसौ । न स्वामी पारितोऽनेनाऽभिनवेन हि पारितः ।। ३६६ ।। वसुधाराप्यभिनवश्रेष्ठिनो मन्दिरेऽपतत् । स कथं न महापुण्यसंभारोपार्जकः प्रभो! ।। ३६७ ।। केवल्याख्यद्भावतोऽर्हञ्जिनदत्तेन पारितः । तथोपाय॑च्युते कल्पे जन्मानेन भवादितः ।। ३६८ ॥ तादृग्भावस्तदाऽयं चेन्नाश्रोष्यद् दुन्दुभिध्वनिम् । तदा ध्यानान्तरगतः प्राप्स्यत्केवलमुज्वलम् ।। ३६९ ।। शुद्धभावविहीनेनाऽभिनवश्रेष्ठिना पुनः । प्राप्तमहत्पारणस्य वसुधारैहिकं फलम् ।। ३७० ।। भक्त्यभक्तिविहीनं तदर्हत्पारणजं फलम् । आकर्ण्य विस्मितो लोकः स्थानं निजनिजं ययौ ॥ ३७१ ।। इतश्च नगरग्रामाकरद्रोणमुखादिषु । विहरन् भगवान् वीरः सुसुमारपुरं ययौ ।। ३७२ ॥ तत्रोद्यानेऽशोकखंडेऽधोऽशोकद्रोः शिलातले । कृताष्टमप्रभुर्भेजे प्रतिमामेकरात्रिकीम् ।। ३७३ ॥ इतश्चात्रैव भरते विन्ध्यपादतलस्थिते । बिभेले सन्निवेशेऽभूद्धनवान् पूरणो गृही ।।३७४ ॥ निशीथे सोऽन्यदा दध्यौ नूनं पूर्वभवे मया । कृतं महत्तपो येन श्रीरियं मान्यता च मे ॥ ३७५।। १ बेभेले । अन्ये उपसर्गाः। ASARASHRSHRSHASHARE ||११९॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy