________________
दशमं पर्व
चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते ।।११८॥
सर्गः श्रीमहावीरजिनचरितम् ।
नित्यमित्याशया नाथं चतुर्मासीमसेवत । तदन्त्याहे निमन्त्र्येशं स ययौ निजवेश्मनि ।। ३५० ।। पूर्वसंसाधितान्यात्मनिमित्तं स महामनाः । प्रासुकान्येषणीयानि वरभोज्यान्यचिन्तयत् ।।३५१ ।। जिनदत्तो जिनमार्गदत्तदृक् प्रांगणे स्थितः । दध्यावेतानि भोज्यानि दास्यामि स्वामिने खलु ॥ ३५२ ।। । धन्योऽस्मि खलु यस्यौकस्यहन् स्वयमिहैष्यति । करिष्यति पारणं च संसारार्णवतारणम् ।। ३५३ ।। आगच्छतश्च नाथस्य गमिष्याम्येष संमुखम् । त्रिश्च प्रदक्षिणीकृत्य वन्दिष्ये तत्पदाम्बुजे ॥ ३५४ ॥ अपुनर्जन्मने जन्म मम चेदं भविष्यति । मोक्षाय दर्शनमपि किं पुनः पारणं प्रभोः ॥ ३५५ ।। एवं च चिन्तयन् यावत्स तस्थौ शुचिमानसः । तावज्जगामाऽभिनवश्रेष्ठिनो धामनि प्रभुः ।। ३५६ ।। स श्रेष्ठी श्रीमदोद्ग्रीवश्चेटीं मिथ्यादृगादिशत् । दत्त्वा भिक्षामसौ भिक्षुर्मक्षु भद्रे ! विसृज्यताम् ।।३५७ ॥ दारुहस्तकहस्ता सा कुल्माषान् समुपानयत् । चिक्षेप च जगभर्तुः पाणिपात्रे प्रसारिते ।। ३५८ ॥ ताडितो दुन्दुभिर्देवैश्वेलोत्क्षेपश्च निर्ममे । वसुधारा पुष्पगन्धाम्भसां वृष्टिश्च तत्क्षणात् ।। ३५९ ॥ लोकैश्च पृष्टोऽभिनवश्रेष्ठी माय्येवमब्रवीत् । स्वयं मया पायसेन पारणं कारितः प्रभुः ।। ३६० ॥ अहो दानं सुदानं चेत्याकर्ण्य दिविषद्ध्वनिम् । लोको राजा चाभिनवश्रेष्ठिनं तुष्टुवुर्मुहुः ॥३६१ ।। स्वाम्यागमनचिन्तावाञ्जीर्णश्रेष्ठी तथा स्थितः । दिविषदुन्दुभिध्वानमाकयैवं व्यचिन्तयत् ।। ३६२ ।। १°दन्ताहे । २ "द्मा।
अन्ये उपसर्गाः ।
19१८॥