________________
त्रिषष्टिशलाकापुरुषचरिते ||११७॥
दशमं पर्व चतुर्थः सर्गः श्रीमहावीरजिनचरितम् ।
अयमस्यापि देवस्य पूज्यः कोऽपीति सर्वथा । चक्रे न युक्तमस्माभिर्यदस्याऽतिक्रमः कृतः ।। ३३७ ॥ इति ब्रुवाणास्ते पौरा विस्मयाऽऽनन्दधारिणः । महिमानं प्रभोश्चक्रुः कौशाम्बी च ययौ प्रभुः ।। ३३८ ।। तत्राऽर्केन्दू सविमानौ जिनेन्द्र प्रतिमास्थितम् । भक्त्याऽभ्येत्य ववन्दाते सुयात्राप्रश्नपूर्वकम् ।। ३३९ ॥ क्रमाच्च विहरन् स्वामी ययौ वाराणसी पुरीम् । अभ्येत्य तत्र शक्रेण ववन्दे मुदितात्मना ।।३४०॥ ततो राजगृहे गत्वा स्थितं प्रतिमया प्रभुम् । ईशानेन्द्रोऽनमद्भक्त्या सुयात्राप्रश्नपूर्वकम् ॥ ३४१ ॥ गतोऽथ मिथिलापुर्यां स्वामी जनकभूभुजा । धरणेन्द्रेण चाऽपूजि प्रियप्रश्नविधायिना ।। ३४२ ॥ ततो विहरमाणोऽगाद्वैशाली नगरी प्रभुः । तत्र चैकादशो वर्षाकालो व्रतदिनादभूत् ।। ३४३ ।। तस्यां च समरोद्याने बलदेवनिकेतने । चतुर्मासक्षपणभृत्तस्थौ प्रतिमया प्रभुः ॥३४४ ।। भूतानन्दो नागराजस्तत्रेत्याऽवन्दत प्रभुम् । आसन्नं केवलज्ञानं समाख्याय जगाम च ॥३४५ ॥ परमश्रावकस्तत्र जिनदत्ताभिधोऽवसत् । दयावान् विश्रुतो जीर्णश्रेष्ठीति विभवक्षयात् ।। ३४६ ।। तत्रोद्याने बलदेवायतने स गतस्तदा । जिनदत्तो जिनपतिं ददर्श प्रतिमास्थितम् ।। ३४७ ।। छद्मस्थ एष सर्वज्ञोऽस्तीति निश्चित्य स प्रभुम् । भक्त्या ववन्दे परया चित्ते चैवमचिन्तयत् ।।३४८ ॥ उपोषितोऽसौ भगवानद्यास्ति प्रतिमाधरः । श्वः कर्ता पारणं चेन्मे मन्दिरे सुन्दरं तदा ॥३४९ ॥
अन्ये उपसर्गाः।
||११७॥