________________
दशमं पर्व
त्रिषष्टिशलाकापुरुषचरिते ॥११६॥
चतुर्थः सर्गः श्रीमहावीरजिनचरितम् ।
तत्र विद्युत्कुमारेन्द्रो नाम्ना हरिरिति प्रभुम् । एत्य प्रदक्षिणीकृत्य प्रणम्यैवमवोचत ।। ३२३ ॥ उपसर्गास्त्वया नाथ ! ते सोढा यैः श्रुतैरपि । अस्मादृशा विदीर्यन्ते वज्रादप्यतिरिच्यसे ।। ३२४ ।। स्तोकेनाप्युपसर्गेण घातिकर्मचतुष्टयम् । हनिष्यस्यचिरादेव केवलं चार्जयिष्यसि ।। ३२५ ॥ इत्युदित्वा भगवन्तं नमस्कृत्य च भक्तितः । हरिर्विद्युत्कुमारेन्द्रो ययौ निजनिकेतनम् ।। ३२६ ।। भगवानपि निर्गत्य नगरी श्वेतवीं ययौ । विद्युदिन्द्रो हरिसहस्तत्रैत्याऽवन्दत प्रभुम् ।। ३२७ ।। आख्याय सोऽपि हरिवज्जगाम निजमाश्रयम् । नाथोऽपि गत्वा श्रावस्त्यां तस्थौ प्रतिमया स्थिरः ।। ३२८ ।। तस्यां पुर्या दिने तस्मिन्महाविच्छर्दपूर्वकम् । प्रारब्धोऽभूज्जनैः स्कन्दरथयात्रामहोत्सवः ।। ३२९ ॥ प्रतिमास्थमतिक्रम्य भगवन्तं पुरीजनाः । स्कन्दं प्रति ययुश्चैत्यपूजापटलिकाभृतः ।। ३३० ॥ स्नपयित्वा पूजयित्वा स्कन्दस्य प्रतिमा जनाः । रथमध्यारोपयितुमसज्जन्त यथाविधि ।। ३३१ ।। तदा चाचिन्तयच्छक्रः कथं विहरति प्रभुः । ददर्श चावधेर्वीरं तथास्थं तांश्च नागरान् ॥ ३३२ ॥ कथं नाथमतिक्रम्य निर्विवेको जनो ह्ययम् । स्कन्दपूजां करोतीति सेय॑स्तत्राययौ हरिः ।। ३३३ ।। शक्रेणाधिष्ठिता स्कन्दप्रतिमा प्रतिमास्थितम् । भगवन्तं प्रत्यचालीयंत्रपांचालिकेव सा ॥३३४ ॥ अहो स्कन्दकुमारोऽयं रथमारोक्ष्यति स्वयम् । इत्यूचुर्नागरा यावत्तावत् सा स्वामिनं ययौ ।। ३३५ ।। सा त्रिः प्रदक्षिणीकृत्य भगवन्तं ननाम च । उपासितुं च प्रारेभे निषण्णा पृथिवीतले ।। ३३६ ।।
अन्ये उपसर्गाः।
||११६॥