________________
दशमं पर्व
त्रिषष्टिशलाकापुरुषचरिते ||११५॥
चतुर्थः सर्गः श्रीमहावीरजिनचरितम् ।
अयं हि कर्मचण्डालः पापः संगमकामरः । दृश्यमानोऽपि पापाय तद् द्रष्टुं नैष युज्यते ।। ३१० ।। बह्वनेनापराद्धं हि यत्स्वामी नः कदर्थितः । नास्मभ्यमपि किं भीतो भवाभीतो न यद्ययम् ।। ३११ ।। अर्हन्तो नान्यसाहाय्यात्तप्यन्ते तप इत्यहम् । तथोपसर्गकालेऽपि नामुं पापमशिक्षयम् ।। ३१२ ।। अतः परमिह तिष्ठन्नस्माकमपि पाप्मने । निर्वासनीयस्तदसौ कल्पादस्मात्सुराधमः ।। ३१३ ।। इत्युदित्वा वज्रपाणिर्वजेणेव शिलोच्चयम् । जघान वामपादेन सुराधमममर्षणः ।। ३१४ ।। पर्यस्यमानो विविधायुधैर्माघवनैर्भटैः । आक्रुश्यमानस्त्रिदिवस्त्रीभिर्मोटितपाणिभिः ॥ ३१५ ।। सामानिकैर्हस्यमानो यानकाख्यविमानगः । स शिष्टैकार्णवायुष्को मेरुचूलां सुरो ययौ ॥३१६ ।।
॥युग्मम्।। महिष्यः संगमकस्य शक्रमेवं व्यजिज्ञपन् । स्वनाथमनुगच्छामस्त्वदादेशो भवेद्यदि ।। ३१७ ।। अनुगन्तुं संगमकं दीनास्या अन्वमस्त ताः । अवारयत्परीवारमशेषमपि वासवः ।। ३१८ ॥ द्वैतीयिकेऽथ दिवसे तत्र गोचरचर्यया । प्राविशद्गोकुलवरे पारणेच्छुर्जगद्गुरुः ।। ३१९ ॥ तत्रैका भक्तितो वत्सपालकस्थविरा प्रभुम् । कल्पेन परमान्नेनोषितेन प्रत्यलाभयत् ।। ३२० ।। चिराज्जातेन भगवत्पारणेन प्रमोदिनः । चक्रिरे पञ्च दिव्यानि तत्र सन्निहिताः सुराः ।। ३२१ ॥ ततश्च विहरन् स्वामी पुरीमालभिकां ययौ । तस्थौ प्रतिमया तत्रालेख्यस्थ इव सुस्थिरः ।। ३२२ ॥
संगमकस्य घोरा उपसगोः ।
||११५॥