________________
दशमं पर्व
| चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते ॥११४॥
सर्गः श्रीमहावीरजिनचरितम् ।
सत्यप्रतिज्ञस्त्वं भ्रष्टप्रतिज्ञोऽहमसौ पुनः । न व्यधायि मया साधु तत्क्षमस्व क्षमानिधे! ॥२९९ ।। यां यास्याम्युपसन्नोऽहमुपसर्गपराङ्मुखः । व्रज त्वमपि निःशंको ग्रामाकरपुरादिषु ।। ३०० ॥ ग्रामेषु विश भिक्षायै भुक्ष्वाहारमदूषितम् । भिक्षादोषा अपि पुरा विहितास्ते मयैव हि ॥ ३०१ ।। स्वाम्यवोचत नश्चिन्तां मुञ्च संगमकामर! । कस्याप्यधीना न वयं विहरामो निजेच्छया ।। ३०२ ।। इत्युक्तवन्तं श्रीवीरं प्रणम्य स सुराधमः । सानुतापः प्रचचाल पुरुहूतपुरी प्रति ।। ३०३ ।। इतश्च कालं तावन्तं सुराः सौधर्मवासिनः । निरानन्दा निरुत्साहा उद्विग्नाश्चावतस्थिरे ।।३०४ ।। शक्रोऽपि मुक्तनेपथ्यांगरागोऽत्यन्तदुःखितः । संगीतकादिविमुखो मनस्येवमचिन्तयत् ।। ३०५ ।। इयतामुपसर्गाणां निमित्तमभवं ह्यहम् । मया स्वामिप्रशंसायां कृतायां सोऽकुपत्सुरः ॥३०६ ।। अत्रान्तरे संगमकः पापपंकमलीमसः । प्रणष्टकान्तिप्राग्भारोऽम्भःस्पृष्ट इव दर्पणः ।।३०७ ॥ भ्रष्टप्रतिज्ञो *मन्दाक्षमन्दीभूताक्षिपंकजः । देवराजाधिष्ठितां तां सुधर्मामाययौ सभाम् ॥३०८।। ।। युग्मम्॥ शक्रः संगमकं दृष्ट्वा सद्यो भूत्वा पराङ्मुखः । इत्यूचे भोः सुराः ! सर्वेऽप्याकर्णयत मद्वचः ।। ३०९ ।।
संगमकस्य घोरा उपसर्गाः।
॥११४॥
१°तास्यपं। टि.- * मन्दाक्षः लज्जा