________________
दशमं पर्व चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते |११३॥
सर्गः श्रीमहावीरजिनचरितम् ।
मातुल ! मातुलेत्युच्चैर्जल्पन्तो दस्यवः प्रभुम् । तथा सस्वजिरे गाढं यथा गिरिरपि स्फुटेत् ॥ २८६ ॥ जगाम वालुकाग्राम प्रशमामृतसागरः । जानुदध्न्यां वालुकायां मज्जत्पादो जगद्गुरुः ॥२८७ ।। निसर्गक्रूरधीरित्थमुपसर्गान् सुराधमः । पुरे ग्रामे वनेऽन्यत्राप्यनुगच्छन् प्रभोळधात् ।। २८८ ॥ उपसर्गकृतो जग्मुर्मासाः संगमकस्य षट् । अथाऽगागोकुले स्वामी तदाऽऽसीत्तत्र चोत्सवः ॥२८९ ॥ षडप्युपोषितो मासान् भगवानतिलंघ्य तान् । कर्तुकामः पारणकं भिक्षार्थं गोकुलेऽविशत् ।। २९० ॥ यत्र यत्र गृहे स्वामी प्रययौ तत्र तत्र च । अनेषणां प्रविदधे पापधीः स सुराधमः ।। २९१ ॥ दत्तोपयोगो ज्ञात्वा तमनिवृत्तं सुराधमम् । स्वामी निवृत्त्य भिक्षायास्तस्थौ प्रतिमया बहिः ॥२९२ ।। किं भग्नपरिणामोऽयमिति सोऽप्यवधेः सुरः । यावदैक्षिष्ट तावच्चापश्यदक्षुभितं प्रभुम् ।। २९३ ॥ स सुरोऽचिन्तयच्चैवं षण्मासी सन्ततः कृतैः । नोपसर्गः कम्पितोऽसौ सह्योऽर्णवजलैरिव ॥२९४ ॥ दीर्घेणाप्येष कालेन ध्यानान्न हि चलिष्यति । वृथा मे प्रक्रमोऽत्राभूगजस्येवाद्रिभेदने ।। २९५ ।। स्वर्विलाससुखं हित्वा शापभ्रष्ट इवावनिम् । कियच्चिरं ह हाऽभ्राम्यं निजदुर्बुद्धिवञ्चितः ॥२९६ ॥ एवं विचिन्त्य स सुरः प्रणम्य च जगद्गुरुम् । कृताञ्जलिम्र्लानमुखो ह्रीणश्चैवमभाषत ॥२९७ ॥ यथा सभायां शक्रेण कीर्तितोऽसि तथा ह्यसि । तद्वचोऽश्रद्दधानेन मयाऽस्येवमुपद्रुतः ॥ २९८ ॥ १°दध्यं । दन। दज ।
संगमकस्य घोरा उपसर्गाः ।
||११३॥