________________
दशमं पर्व
त्रिषष्टिशलाका
चतुर्थः
पुरुषचरिते
|११२॥
सर्गः श्रीमहावीरजिनचरितम् ।
व्यपदिश्येभदन्ताऽऽख्यहस्तकाभिनयं मुहुः । गाढमंगपरिष्वंगसंज्ञां काचिच्च निर्ममे ।। २७३ ।। संचारयन्त्यन्तरीय नीवीनिबिडनच्छलात् । नितम्बबिंबफलकं काचिदाविरभावयत् ।। २७४ ।। अंगभंगापदेशेन वक्षः पीनोन्नतस्तनम् । सुचिरं रोचयामास काचिद्रूचिरलोचना ।। २७५ ॥ यदि त्वं वीतरागोऽसि रागं तन्नस्तनोषि किम् ? |शरीरनिरपेक्षश्चेद्दत्से वक्षोऽपि किं न नः ? ॥२७६ ।। दयालुर्यदि वाऽसि त्वं तदानीं विषमायुधात् । अकाण्डाकृष्टकोदण्डादस्मान्न त्रायसे कथम् ? ।। २७७ ।। उपेक्षसे कौतुकेन यदि नः प्रेमलालसाः । किंचिन्मात्रं हि तद्युक्तं मरणान्तं न युज्यते ।। २७८ ॥ स्वामिन् ! कठिनतां मुंच पूरयास्मन्मनोरथान् । प्रार्थनाविमुखो मा भूः काश्चिदित्यूचिरे चिरम् ॥२७९ ॥ एवं गीतातोद्यनृत्तैर्विकारैरागिकैरपि । चाटुभिश्च सुरस्त्रीणां न चुक्षोभ जगद्गुरुः ।। २८० ।। एवं विंशत्युपसी तत्र रात्रौ सुराधमः । चक्रे संगमकः कायोत्सर्गस्थस्य जगद्गुरोः ।। २८१ ।। प्रातः संगमकश्चैवमचिन्तयदहो अयम् । नेषदप्यचलद्धयानान्मर्यादाया इवार्णवः ॥२८२ ॥ तत्कि यामि दिवं भ्रष्टप्रतिज्ञो यामि वा कथम् । क्षोभयिष्याम्युपसर्गः स्थित्वाऽहं चिरमप्यमुम् ।। २८३ ॥ पथि सूर्यकरस्पृष्टे युगमात्रप्रदत्तदृक् । भगवान् वालुकाऽभिख्यं ग्राम प्रत्यचलत्ततः ।। २८४ ॥ सुराधमः संगमकः पंचचौरशती पथि । विचक्रे वालुकां चोच्चैर्वालुकार्णवसन्निभाम् ।। २८५ ।। १°° | २ °न्त्युत्तरी ।
संगमकस्य घोरा उपसर्गाः ।
॥११२॥