________________
त्रिषष्टिशलाकापुरुषचरिते ॥१११॥
दशमं पर्व चतुर्थः सर्गः
श्रीमहावीरजिनचरितम् ।
राज्याभिषेककामस्य मंगल्यतिलकानिव । सर्वांगं केतकव्याजात् कुर्वती प्रावृडाबभौ ॥२६० ।। सहस्रनयनीभूय नवनीलोत्पलच्छलात् । स्वसंपदमिवोद्दामां पश्यन्ती शुशुभे शरद् ।। २६१ ।। जयप्रशस्ति कामस्य श्वेताक्षरसहोदरैः । हेमन्तश्रीर्लिलेखेव प्रत्यग्रैः कुन्दकुड्मलैः ।। २६२ ।। गणिकेवोपजीवन्ती हेमन्तसुरभीसमम् । कुन्दैश्च सिन्दुवारैश्च शिशिरश्रीरचीयत ।। २६३ ।। एवमुज्जृम्भमाणेषु सममेवर्तुषु क्षणात् । मीनध्वजपताकिन्यः प्रादुरासन् सुरांगनाः ।। २६४ ।। संगीतमविगीतांग्यः पुरो भगवतस्ततः । ताः प्रचक्रमिरे जैत्रं मंत्रास्त्रमिव मान्मथम् ।। २६५ ।। तत्राविसूत्रितलयं गान्धारग्रामबन्धुरम् । काभिश्चिदुदगीयन्त जातयः शुद्धवेसराः ॥२६६ ।। क्रमव्युत्क्रमगैस्तानैर्व्यक्तैव्यंजनधातुभिः । प्रवीणाऽवादयद्वीणां काचित् सकलनिष्कलाम् ।। २६७ ।। स्फुटत्तकारधोंकारप्रकारैर्मेनिस्वनान् । काश्चिच्च वादयामासुम॒दंगांस्त्रिविधानपि ।। २६८ ॥ नभोभूगतचारीकं विचित्रकरणोद्भटम् । दृष्टिभावैर्नवनवैः काश्चिदप्यनरीनृतुः ।। २६९ ॥ दृढांगहाराभिनयैः सद्यस्त्रुटितकंचुका । बध्नन्ती श्लथधम्मिल्लं दोर्मूलं काऽप्यदीदृशत् ।। २७० ॥ दंडपादाभिनयनच्छलात् काऽपि मुहुर्मुहुः । चारुगोरोचनागौरमूरुमूलमदर्शयत् ।। २७१ ।। श्लथचंडातकग्रन्थिदृढीकरणलीलया । काऽपि प्रकाशयद्वापीसनाभि नाभिमंडलम् ।। २७२ ।। १°द्धचेतसः ।
संगमकस्य घोरा उपसर्गाः।
॥१११॥