________________
दशमं पर्व चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते ।।११०॥
सर्गः श्रीमहावीरजिनचरितम् ।
तां च दैवीमसौ मायां मन्यमानो महामनाः । न मुमोच विभुानमभिग्रहकृताग्रहः ।। २४७ ।। ताडंकहारकेयुरकिरीटद्योतिताम्बरः । तत्संहृत्य विमानस्थः स पुरोऽस्थादुवाच च ।। २४८ ॥ महर्षे ! तव तुष्टोस्मि सत्त्वेन तपसौजसा । प्राणानपेक्षभावेनारब्धनिर्वहणेन च ।। २४९ ॥ पर्याप्तं तपसाऽनेन शरीरक्लेशकारिणा । ब्रूहि याचस्व मा कार्षीः शंकां यच्छामि किं तव ? ।। २५० ।। इच्छामात्रेण पूर्यन्ते यत्र नित्यं मनोरथाः । किमनेनैव देहेन त्वां स्वर्ग प्रापयामि तम् ? ।। २५१ ॥ अनादिभवसंरुढकर्मनिर्मोक्षलक्षणम् । एकान्तपरमानन्दं मोक्षं वा त्वां नयामि किम् ? ।। २५२ ।। अशेषमंडलाधीशमौलिलालितशासनम् । अथवाऽत्रैव यच्छामि साम्राज्यं प्राज्यमृद्धिभिः ? ॥ २५३ ।। इत्थं प्रलोभनावाक्यैरक्षोभ्यमनसि प्रभौ । अप्राप्तप्रतिवाक् पापः पुनरेवमचिन्तयत् ।। २५४ ।। मोघीकृतमनेनैतन्मम शक्तिविजृम्भितम् । तदिदानीममोघं स्याद्यद्येकं कामशासनम् ।। २५५ ।। यतः कामास्त्रभूताभिः कामिनीभिः कटाक्षिताः । दृष्टा महापुमांसोऽपि लुम्पन्तः पुरुषव्रतम् ॥२५६ ।। इति निश्चित्य चित्तेन निर्दिदेश सुरांगनाः । तद्विभ्रमसहायान् षट् प्रायुंक्त स ऋतूनपि ।। २५७ ॥ कृतप्रस्तावना मत्तकोकिलाकलकूजितैः । कंदर्पनाटकनटी वसन्तश्रीरशोभत ।। २५८ ।। मुखवासं सज्जयन्ती विकसन्नीपरेणुभिः । सैरन्ध्रीव दिग्वधूनां ग्रीष्मलक्ष्मीरजृम्भत ।। २५९ ।। १°वाक्योऽयं पु।
संगमकस्य घोरा उपसर्गाः ।
॥११०॥