________________
दशमं पर्व चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते ॥१०९॥
सर्गः
श्रीमहावीरजिनचरितम् ।
तेनापि खरवातेनाऽपूर्णकामो विनिर्ममे । धुसत्कुलकलंकोऽसौ द्राक् कलंकलिकाऽनिलम् ।। २३४ ।। भूभृतोऽपि भ्रमयितुमलंकर्मीणविक्रमः । भ्रमयामास चक्रस्थमृत्पिडमिव स प्रभुम् ।। २३५ ॥ भ्रम्यमाणोऽर्णवावर्तेनेव तेन नभस्वता । तदेकतानो न ध्यानं मनागपि जहौ प्रभुः ॥२३६ ॥ वज्रसारमनस्कोऽयं बहुधापि कदर्थितः । न क्षुभ्यति कथमहं भग्नागूर्यामि तां सभाम् ।।२३७ ।। तदस्य प्राणनाशेन ध्यानं नश्यति नान्यथा । चिन्तयित्वेति चक्रे स कालचक्रं सुराधमः ॥२३८ ।। अह्नाय तदयोभारसहस्रघटितं ततः । उद्दधार सुरः शैलं कैलासमिव रावणः ॥२३९ ॥ पृथिवीं संपुटीकर्तुं कृतं मन्ये पुटान्तरम् । उत्पत्य कालचक्रं स प्रचिक्षेपोपरि प्रभोः ।। २४० ।। ज्वालाजालैरुच्छलद्भिर्दिशः सर्वाः करालयत् । तत्पपात जगभर्तयॊर्वानल इवार्णवे ।। २४१ ।। कुलक्षितिधरक्षोदक्षमस्यास्य प्रहारतः । ममज्जाऽऽजानु भगवानन्तर्वसुमतीतलम् ।। २४२ ।। एवं भूतेऽपि भगवानशोचदिदमस्य यत् । तितारयिषवो विश्वं वयं संसारकारणम् ।। २४३ ।। कालचक्रहतोऽप्येष प्रपेदे पंचतां न यत् । अगोचरस्तदस्त्राणामुपायः क इहापरः ॥२४४ ॥ अनुकूलैरुपसगैः क्षुभ्येद्यदि कथंचन । इति बुद्ध्या विमानस्थः स पुरोऽस्थादुवाच च ॥२४५ ॥ + सद्यः प्रकाशमानाशं क्रोशत्खगकुलाकुलम् । प्रातःकालमकालेऽपि दर्शयामास दुष्टधीः ॥२४६ ।। १त्पाट्य । २ सुरश्चक्रे तानाशु त्रिजगद्गुरोः ।
संगमकस्य घोरा उपसर्गाः ।
||१०९॥