________________
त्रिषष्टि
शलाका
पुरुषचरिते 11906 11
दंष्ट्राभिर्वज्रसाराभिर्नखरैः शूलसोदरैः । अव्यग्रं व्यापिपर्ति स्म व्याघ्रो भुवनभर्तरि ।। २२१ ।। तत्र विच्छायतां प्राप्ते दवदग्ध इव द्रुमे । सिद्धार्थराजरूपं स विचक्रे विबुधाधमः ॥ २२२ ॥ किमेतद्भवता तात प्रक्रान्तमतिदुष्करम् । प्रव्रज्यां मुञ्च माऽस्माकं प्रार्थनामवजीगणः ।। २२३ ।। वार्धके मामशरणं त्यक्तवान्नन्दिवर्धनः । विकृता त्रिशला चैवं विललाप मुहुर्मुहुः ।। २२४ ।। ॥ युग्मम् ॥ ततस्तयोर्विलापैरप्यलिप्तमनसि प्रभौ । आवासितं दुराचारः स्कन्धावारमकल्पयत् ।। २२५ ।। तत्रानासाद्य दृषदं सूदः सादर ओदने । चुल्लीपदे प्रभोः पादौ कृत्वा स्थालीं न्यवेशयत् ।। २२६ ।। तत्कालं ज्वालितस्तेन जज्वाल ज्वलनोऽधिकम् । पादमूले जगद्भर्तुगिरिरिव दवानलः ।। २२७ ॥ तप्तस्यापि प्रभोः स्वर्णस्येव न श्रीरहीयत । ततः सुराधमश्चक्रे पक्वणं दारुणक्वणम् ॥ २२८ ॥ पक्वणोऽपि प्रभोः कण्ठे कर्णयोर्भुजदण्डयोः । जंघयोश्च क्षुद्रपक्षिपंजराणि व्यलंबयत् ।। २२९ ।। खगैश्चंचुनखाघातैस्तथा दद्रे प्रभोस्तनुः । यथा छिद्रशताकीर्णा तत्पञ्जरनिभाभवत् ।। २३० ॥ तत्राप्यसारतां प्राप्ते पक्वणे पक्वपत्रवत् । उत्पादितमहोत्पातं खरवातमजीजनत् ॥ २३१ ॥ अन्तरिक्षे महावृक्षांस्तृणोत्क्षेपं समुत्क्षिपन् । विक्षिपन् पांशुविक्षेपं दिक्षु च ग्रावकर्करान् ॥ २३२ ॥ सर्वतो रोदसीगर्भं भस्त्रापूरं च पूरयन् । उत्पाट्योत्पाट्य वातोऽसौ भगवन्तमपातयत् ॥ २३३ ॥ ॥ युग्मम्॥
१ तावत् । २ षदः । * चंडालं ।
दशमं पर्व
चतुर्थः वर्गः श्रीमहावीर
जिनचरितम् ।
संगमकस्य
घोरा उपसर्गाः ।
1190211