________________
P
दशमं पर्व चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते ॥१०७॥
सर्गः श्रीमहावीरजिनचरितम् ।
तेष्वप्यकिञ्चिद्भूतेषु भूतीभूत इव क्रुधा । उद्दण्डदन्तमुशलं हस्तिरुपं ससर्ज सः ।। २०८ ।। सोऽधावत् पादपातेन मेदिनी नमयन्निव । उडून्युदस्तहस्तेन नभस्तस्त्रोटयन्निव ।। २०९ ।। कराग्रेण गृहीत्वा च दुवरिण स वारणः । दूरमुल्लालयामास भगवन्तं नभस्तले ।। २१० ॥ विशीर्य कणशोऽगच्छत्वसाविति दुराशयः । दन्तावुदस्य स व्योम्नः पतन्तं स्म प्रतीच्छति ।। २११ ॥ पतितं दन्तघातेन विध्यति स्म मुहर्मुहुः । वक्षसो वज्रकठिनात्समुत्तस्थुः स्फुलिंगकाः ।। २१२ ।। न शशाक वराकोऽसौ कर्तुं किंचिदपि द्विपः । यावत्तावत्सुरश्चक्रे करिणी वैरिणीमिव ।। २१३ ॥ अखण्डतुण्डदन्ताभ्यां भगवन्तं बिभेद सा । स्वैरं शरीरनीरेण विषेणेव सिषेच च ।। २१४ ।। करेणो रेणुसाद्भूते तस्याः सारे सुराधमः । पिशाचरुपमकरोन्मकरोत्कटदंष्ट्रकम् ।। २१५ ॥ ज्वालाजालाकुलं व्यात्तव्यायतं वक्त्रकोटरम् । अभवद्भीषणं तस्य वह्निकुण्डमिव ज्वलत् ॥२१६ ॥ यमौकस्तोरणस्तम्भाविव प्रोत्तंभितौ भुजौ । अभूच्च तस्य जंघोरु तुंगं तालद्रुमोपमम् ॥२१७ ।। स साट्टहासः फेत्कुर्वन् स्फूर्जत्किलिकिलारवः । कृत्तिवासाः कत्रिकाभृद्भगवन्तमुपाद्रवत् ।। २१८ ॥ तस्मिन्नपि हि विध्याते क्षीणतैलप्रदीपवत् । व्याघ्ररुपं क्रुधा ध्मातः शीघ्रं चक्रे स निघृणः ॥२१९ ।। अथ पुच्छच्छटाच्छोटैः पाटयन्निव मेदिनीम् । बूत्कारप्रतिशब्दैश्च रोदसी रोदयन्निव ॥ २२० ।। १°मुंड | सुंड । २ "हासके ।
संगमकस्य घोरा उपसर्गाः ।
RASANSA565
॥१०७॥