________________
त्रिषष्टिशलाका
पुरुषचरिते 1190 11
प्राविशन्नेकतोऽङ्गेषु स्वैरं निर्ययुरन्यतः । विध्यन्त्यस्तीक्ष्णतुण्डाग्रैः सूच्यो निवसनेष्विव ।। १९४ । निर्भाग्यस्येव वाञ्छासु मोघीभूतासु तास्वपि । स दंशान् रचयामास नाकृत्यान्तो दुरात्मनाम् ।। १९५ ।। तेषामेकप्रहारेण रक्तैर्गोक्षीरसोदरैः क्षरद्भिरभवन्नाथः सनिर्झर इवाद्रिराट् ।। १९६ ।। तैरप्यक्षोभ्यमाणेऽथ जगन्नाथे स दुर्मतिः । चक्रे प्रचण्डतुण्डाग्रा दुर्निवारा घृतेलिकाः ।। १९७ ॥ शरीरे परमेशस्य निमग्नमुखमण्डलाः । ततस्ताः समलक्ष्यन्त रोमालीव सहोत्थिता ।। १९८ ।। ततोऽप्यविचलच्चित्ते योगवित्ते जगद्गुरौ । स महावृश्चिकांश्चक्रे ध्यानवृश्चननिश्चयी ।। १९९ ।। प्रलयाग्निस्फुलिंगाभास्तप्ततोमरदारुणैः । तेऽभिन्दन् भगवद्देहं लांगूलांकुटकण्टकैः ।। २०० ।। तैरप्यानाकुले नाथे कूटसंकल्पसंकुलः । सोऽनल्पान् कल्पयामास नकुलान् दशनाकुलान् ।। २०१ ।। खिखीति रसमानास्ते दंष्ट्रामिर्भगवत्तनुम् । खण्डखण्डैस्त्रोटयन्तो मांसखण्डान्यपातयन् ।। २०२ ।। तैरप्यकृतकृत्योऽसौ यमदोर्दण्डदारुणान् । अत्युत्कटफटाटोपान् कोपात्प्रायुंक्त पन्नगान् ॥ २०३ ॥ आशिरः पादमत्यर्थं महावीरं महोरगाः । अवेष्टन्त महावृक्षं कपिकच्छूलता इव ॥ २०४ ॥ प्रजह्रुस्ते तथा तत्र स्फुटन्ति स्म फटा यथा । तथा दशन्ति स्म यथाऽभज्यन्त दशना अपि ।। २०५ ।। उद्वान्तगरलेष्वेषु लम्बमानेषु रज्जुवत् । स वज्रदशनानाशु मूषिकानुदपीपदत् ॥ २०६ ॥ स्वाम्यंगं खनकाश्चख्नुर्नखैर्दन्तैर्मुखैः करैः । मोमूत्र्यमाणास्तत्रैव क्षते क्षारं निचिक्षिपुः ॥ २०७ ॥
दशमं पर्व
चतुर्थः सर्गः
श्रीमहावीरजिन
चरितम् ।
संगमकस्य घोरा उपसर्गाः ।
1190 11