________________
दशमं पर्व
त्रिषष्टिशलाकापुरुषचरिते ।।१०५॥
चतुर्थः सर्गः श्रीमहावीरजिनचरितम् ।
सकुलाचलमेदिन्याः प्लावनव्यक्तवैभवः । येषामेष सुगंडूषंकरश्च मकराकरः ।। १८१ ।। अप्येकभुजदंडेन प्रचण्ड छत्रलीलया । उदरन्ति सहानेकभूधरां ये वसुन्धराम् ।। १८२ ।। तेषामसमऋद्धीनां सुराणाममितौजसाम् । इच्छासंपन्नसिद्धीनां मर्त्यमात्रं कियानयम् ।। १८३ ॥ एषोऽहं चालयिष्यामि तं ध्यानादित्युदीर्य सः । करेण भूमिमाहत्योदस्थादास्थानमण्डपात् ।। १८४ ।। अर्हन्तः परसाहाय्यात्तपः कुर्वन्त्यखंडितम् । मा ज्ञासीदिति दुर्बुद्धिः शक्रेण स उपेक्षितः ।। १८५ ।। ततो वेगानिलोत्पातपतापतघनाघनः । रौद्राकृतिदुरालोको भयापसरदप्सराः ।। १८६ ।। विकटोरःस्थलाघातपुञ्जितग्रहमण्डलः । स पापस्तत्र गतवान् यत्रासीत्परमेश्वरः ।।१८७।। ।युग्मम्।। निष्कारणजगबन्धुं निराबाधं तथा स्थितम् । श्रीवीरं पश्यतस्तस्य मत्सरो ववृधेऽधिकम् ॥१८८ ॥ गीर्वाणपांसनः पांसुवृष्टिं दुष्टोऽतनिष्ट सः । अकांडघटितारिष्टामुपरिष्टाज्जगत्प्रभोः ।। १८९ ।। विधुर्विधुन्तुदेनेव दुर्दिनेनेव भास्करः । पिदधे पांसुपूरेण सर्वांगीणं जगत्प्रभोः ।। १९० ॥ समन्ततोऽपि पूर्णानि तथा श्रोतांसि पांसुभिः । यथा समभवत् स्वामी निःश्वासोच्छ्वासवर्जितः ।। १९१ ।। तिलमात्रमपि ध्यानान्न चचाल जगद्गुरुः । कुलाचलश्चलति किं गजैः परिणतैरपि ।। १९२ ।। अपनीय ततः पांशुं वज्रतुण्डाः पिपीलिकाः । स समुत्पादयामास प्रभोः सर्वांगपीलिकाः ॥ १९३ ॥ १ सर्ग । सगंडूकक।
RSSIRAHASRASHRSHASHASASHASHA
संगमकस्य घोरा उपसर्गाः ।
॥१०५॥