________________
| दशमं पर्व
त्रिषष्टिशलाकापुरुषचरिते ॥१०४॥
चतुर्थः सर्गः श्रीमहावीरजिनचरितम् ।
तूर्यत्रयादिभिः कालं विनोदैरतिवाहयन् । गोप्ता दक्षिणलोकार्धं शक्रसिंहासने स्थितः ।। १६८ ॥ अवधिज्ञानतो ज्ञात्वा भगवन्तं तया स्थितम् । उत्थाय पादुके त्यक्त्वोत्तरासंगं विधाय च। १६९ ॥ जान्वसव्यं भुवि न्यस्य सव्यं च न्यंच्य किंचन । शक्रस्तवेनावन्दिष्ट भूतलन्यस्तमस्तकः ।। १७० ।। समुत्थाय च सर्वांगोदञ्चद्रोमाञ्चकञ्चुकः । शचीपतिरुवाचेदमुद्दिश्य सकलां सभाम् ।। १७१ ।। भो भोः सर्वेऽपि सौधर्मवासिनस्त्रिदशोत्तमाः ! । श्रृणुत श्रीमहावीरस्वामिनो महिमाद्भुतम् ।। १७२ ।। दधानः पञ्चसमितीर्गुप्तित्रयपवित्रितः । क्रोधमानमायालोभानभिभूतो निराश्रवः ।। १७३ ।। द्रव्ये क्षेत्रे च काले च भावे चाऽप्रतिबद्धधीः । रुक्षकपुद्गलन्यस्तनयनो ध्यानमास्थितः ।। १७४ ।। अमरैरसुरैर्यक्षरक्षोभिरुरगैनरैः । त्रैलोक्येनापि शक्येत ध्यानाच्चालयितुं न हि ।। १७५ ।। इत्याकर्ण्य वचः शाक्रं शक्रसामानिकः सुरः । ललाटपट्टघटितभृकुटीभंगभीषणः ।। १७६ ।। कंपमानाधरः कोपालोहितायतलोचनः । अभव्यो गाढमिथ्यात्वसंगः संगमकोऽवदत् ।। १७७ ॥ मर्त्यः श्रमणमात्रोऽयं यदेवं देव वर्ण्यते । स्वच्छन्दं सदसद्वादे प्रभुत्वं तत्र कारणम् ।। १७८ ।। देवैरपि न चाल्योऽयं ध्यानादित्युद्भटं प्रभो ! । कथं धार्येत हृदये धृतं वा प्रोच्यते कथम् ? ।। १७९ ॥ रुद्धान्तरिक्षः शिखरैर्मूलै रुद्धरसातलः । यैः किलोदस्यते दोष्णा सुमेरुलोष्टुलीलया ।। १८० ॥
संगमकस्य घोरा उपसर्गाः ।
।।१०४॥