________________
त्रिषष्टिशलाकापुरुषचरिते ॥१०१॥
दशमं पवे चतुर्थः सर्गः श्रीमहावीरजिनचरितम् ।
स कुंभकारशालायां स्थितः षण्मासिकं तपः । अन्वतिष्ठद्यथाख्यातं तेजोलेश्या सिषेध च ।। १३०॥ तेजोलेश्यापरीक्षार्थं स गत्वा कूपकंटके । स्वस्य कोपकृते दास्याः कर्करेणाऽभिनद् घटम् ।। १३१ ॥ सा तमाक्रोष्टुमारेभे तेनापि मुमुचे धा । तेजोलेश्या तडिदिव च्युता दासी ददाह सा ।। १३२ ।। संजातप्रत्ययश्चैवं कौतुकालोकनप्रियः । गोशालको वृतो लोकैर्विहर्तुमुपचक्रमे ।। १३३ ॥ श्री पार्श्वशिष्या अष्टांगनिमित्तज्ञानपण्डिताः । गोशालकस्य मिलिताः षडमी प्रोज्झितव्रताः ।। १३४ ।। नाम्ना शोणः कलिन्दोऽन्यः कर्णिकारोऽपरः पुनः । अच्छिद्रोऽथाग्निवेशानोऽथार्जुनः पञ्चमोत्तरः ।। १३५ ॥ तेऽप्याख्युरष्टांगमहानिमित्तं तस्य सौहृदात् । पुंसां समानशीलानां सद्यो भवति सौहृदम् ।। १३६ ।। तेजोलेश्याऽष्टांगमहानिमित्तज्ञानगर्वितः । अहं जिनोऽस्मीति वदन् वसुधा विजहार सः ।। १३७ ।। नाथोऽपि सिद्धार्थपुराद्वैशाली नगरी ययौ । शंखः पितृसुहृत्तत्राभ्यानर्च गणराट् प्रभुम् ।।१३८ ।। ततः प्रतस्थे भगवान् ग्राम वाणिजकं प्रति । मार्गे गंडकिका नाम नदी नावोत्ततार च ।। १३९ ॥ उत्तीर्णमात्रो भगवान् सैकते तप्तवालुके । अधारि नाविकैद्युत्तारणद्रविणार्थिभिः ।। १४० ।। तदा च शंखगणराड्जामेयश्चित्रनामकः । नौसैन्येनागतो दूतो निवृत्तः प्रभुमैक्षत ।। १४१ ।। भर्त्सयित्वा नाविकांस्तान् भगवन्तममोचयत् । भक्त्या चाभ्यर्च्य परया चित्रो निजपुरं ययौ ।। १४२ ।। १ क्षणात् । २ मंड', मंडि । ३ दौत्ये । दूत्ये ।
उपसर्गवर्णनम् ।
।।१०१॥