________________
दशमं पर्व
त्रिषष्टिशलाकापुरुषचरिते ॥१००॥
चतुर्थः
सर्ग: श्रीमहावीरजिनचरितम् ।
तापसः स चुकोपाथ तेजोलेश्यां मुमोच च । अत्यन्तघष्टाद्दहनश्चन्दनादपि जायते ।। ११७ ।। तस्या ज्वालाकरालाया भीतो गोशालको ययौ । अभि प्रभुं दवत्रस्तोऽभिनदीव वनद्विपः ।। ११८ ॥ त्रातुं गोशालकं स्वामी शीतलेश्यामथाऽमुचत् । तेजोलेश्या तयाऽशामि वारिणेव हुताशनः ।। ११९ ॥ तामृद्धि स्वामिनः प्रेक्ष्य विस्मितो वैशिकायनः । समुपेत्य महावीरं सप्रश्रयमदोऽवदत् ।। १२० ॥ न ज्ञातो भवतामेष भगवन्नतिषज्जनः । तत्सहध्वमिहेदृक्षं प्रतीपाचरणं मम ।। १२१ ॥ एवमुक्त्वा गते तस्मिन् प्रभु गोशालकोऽवदत् । तेजोलेश्यालब्धिरियं जायते भगवन् कथम् ? ।। १२२ ।। स्वाम्याख्यत्सर्वदा षष्ठं विदध्याद्यश्च पारयेत् । यमी सनखकुल्माषमुष्ट्यम्बुचुलुकेन च ।। १२३ ॥ तस्य षण्मासपर्यन्ते तेजोलेश्या गरीयसी । उत्पद्येतास्खलनीया प्रतिपक्षभयंकरा ।। १२४ ।। कूर्मग्रामाच्च गोशालेनान्वितः परमेश्वरः । प्रतस्थे प्रतिसिद्धार्थपुराख्यं नगरोत्तमम् ॥ १२५ ॥ संप्राप्ते तत्तिलस्तम्बदेशे गोशालकोऽवदत् । न निष्पन्नस्तिलस्तम्बो यः स्वामिभिरुदीरितः ।। १२६ ॥ स्वाम्याचख्यौ तिलस्तम्बो निष्पन्नः सोऽत्र विद्यते । गोशालोऽश्रद्दधत्तत्र तिलशिम्बां व्यदारयत् ।। १२७ ॥ तत्र सप्ततिलान्पश्यन्नेवं गोशालकोऽवदत् । जायन्तेऽङ्गे परावृत्य पुनस्तत्रैव जन्तवः ॥ १२८ ॥ तेजोलेश्यां स्वाम्याख्यातां स साधयितुमन्यदा । स्वामिपादान् परित्यज्य श्रावस्ती नगरी ययौ ।। १२९ ॥||x
उपसर्गवर्णनम् ।
॥१०॥
१शम्बां।