________________
दशमं पर्व
त्रिषष्टिशलाका
चतुर्थः
पुरुषचरिते
॥९९॥
सर्गः श्रीमहावीरजिनचरितम् ।
सोऽपृच्छत् पितरौ तत्र युवयोरंगजोऽस्मि किम् । लब्धः क्रीतोऽथवान्यो वा कथ्यतां मे यथातथम् ।। १०४ ।। आवयोरंगजोऽसीति यदा तौ हि जजल्पतुः । तदा सोऽनशितस्तस्थावयथाख्यानपीडितः ।। १०५ ।। यथातथमथाऽऽख्यातां तत्प्राप्ति पितरावपि । अज्ञासीद्वेशिकां वेश्यां सोऽपि मातरमात्मनः ।। १०६ ।। गत्वा चम्पां वेशिकायाः स्ववृत्तान्तं शशंस सः । सोऽपि तं स्वसुतं ज्ञात्वा रुरोद न्यग्मुखी ह्रिया ।। १०७ ॥ अमोचयच्च कुट्टिन्या द्रव्यं दत्वा स्वमातरम् । ग्रामे नीत्वा निजेऽमुञ्चद्धर्मे चास्थापयत् पथि ।। १०८ ॥ वेशिकासूनुरित्यासीत्स नाम्ना वैशिकायनः । तदैव विषयोद्विग्नश्चाददे तापसव्रतम् ।। १०९ ।। स्वशास्त्राध्ययनपरः स्वधर्मकुशलः क्रमात् । कूर्भग्रामे स आगच्छच्छ्रीवीरागमनाग्रतः ।। ११० ॥ तबहिश्चोर्ध्वदोर्दण्डः सूर्यमंडलदत्तदृक् । लम्बमानजटाभारो न्यग्रोधदुरिव स्थिरः ।। १११ ।। निसर्गतो विनीतात्मा दयादाक्षिण्यवान् शमी । आतापनां स मध्याह्ने धर्मध्यानस्थितोऽकरोत् ।। ११२ ॥ आदित्यकरतापेन यूका निपतिता भुवि । ग्राहं ग्राहं स चिक्षेप भूयो मूर्ध्नि कृपानिधिः ।। ११३ ।। तं चावलोक्य गोशालः स्वामिपावा॑दुपेत्य च । ऊचे जानासि किं तत्त्वं यूकाशय्यातरोऽसि वा ? ॥११४॥ योषिद्वा पुरुषो वासि सम्यग्विज्ञायसे न हि । इत्युक्तोऽपि तपस्वी स क्षमी नोवाच किञ्चन ।। ११५ ॥ भूयो भूयोऽपि गोशालस्तथैव तमभाषत । यंत्रेऽपि बहुशः क्षिप्तं श्वपुच्छं न ऋजु भवेत् ।। ११६ ।।
उपसर्गवर्णनम् ।
॥९९॥