________________
त्रिषष्टिशलाकापुरुषचरिते
॥९८॥
दशमं पर्व चतुर्थः सर्गः श्रीमहावीरजिनचरितम् ।
ददर्श वेशिकां वेश्यामध्यस्थां स स्वमातरम् । तामेवैच्छद्रमयितुमज्ञा हि पशुवज्जनाः ॥ ९१ ॥ अदापयद् ग्रहणकं तस्या एव तदैव सः । निशि स्नातविलिप्तांगस्तद्गृहाय चचाल च ।। ९२ ।। पादः शकृति निर्मग्नो गच्छतस्तस्य वर्त्मनि । न सोऽज्ञासीत् क्वचिन्मग्न इति स्मरविमोहितः ।। ९३ ॥ तं प्रबोधयितुं सद्यस्तदीया कुलदेवता । विकृत्य गां च वत्सं चाऽन्तरा तस्थौ तदध्वनः ।। ९४ ।। वत्से घर्षितुमारेभे यावत् सोंऽधिं पुरीषिणम् । वत्सः स तावन्मानुष्या वाचा गामित्यवोचत ।। ९५ ॥ मातः पश्यायमहीकः पुंस्पशुधर्मवर्जितः । शकृल्लिप्तं निजं पादं मयि घर्षति निघृणः ।। ९६ ॥ गौरप्युवाच मा ताम्य नाकृत्यं किञ्चिदस्य हि । निजां यो जननी रन्तुं त्वरते कामगर्दभः ।। ९७ ॥ तच्छुत्वाऽचिन्तयत्सोऽपि गावो नरगिरा कथम् । वदन्त्यमुष्या वेश्यायाः सूनुरस्मि कथं नु वा ।। ९८ ।। प्रक्ष्यामि वेश्यां तामेवेत्यालोच्याऽगात्तदोकसि । अभ्युत्थानादिना तस्य प्रतिपत्ति व्यधाच्च सा ।। ९९ ।। निरुद्धकामव्यापारः साशंको गोगिराथ सः । स्थित्वा क्षणमवोचत्तां पारम्पर्य निजं वद ।। १०० ॥ साउनाकर्णितकं कृत्वा हावभावानदर्शयत् । इदं हि पण्यनारीणां मुख्यं मन्मथशासनम् ॥१०१ ।। सोऽप्यवोचत दास्यामि जल्पितद्विगुणं धनम् । स्वकीयं ब्रूहि सद्भावं स्वपित्रोः शपथश्च ते ॥ १०२ ॥ एवं मुहुर्मुहुस्तेन पृष्टा साऽऽख्यद्यथातथम् । साशंकः सोऽपि चोत्थाय जगाम ग्राममात्मनः ।। १०३ ।। १°द्रक्ष्यामि , प्रक्षामि , प्रेक्षामि ।
| उपसर्गवर्णनम् ।
Ile