________________
त्रिषष्टिशलाका
पुरुषचरिते 11903 11
अथ वाणिजकग्रामं जगाम भगवानपि । बहिश्च धर्मध्यानस्थस्तत्राऽस्थात् प्रतिमाधरः ।। १४३ ॥ तदा षष्ठतपास्तत्र नित्यमातापनापरः । आनन्दश्रावको जातावधिः प्रभुमवन्दत ।। १४४ ।। स प्राञ्जलिर्बभाषे च भगवन्नतिदुस्सहान् । परीषहानसहिष्ठा उपसर्गांश्च दारुणान् ।। १४५ ।। वज्रसारं शरीरं ते वज्रसारं च ते मनः । परीषहोपसर्गैरप्येभिर्यद्भज्यते न हि ।। १४६ ।। इदानीं केवलज्ञानमासन्नं वर्तते प्रभो ! । इत्युदित्वा प्रभुं भूयो नत्वाऽऽनन्दो ययौ गृहम् ।। १४७ ॥ कायोत्सर्गं पारयित्वा श्रावस्त्यां पर्युपेत्य च । दीक्षातो दशमं वर्षाकालं स्वाम्यत्यवाहयत् ।। १४८ ।। पारयित्वा बहिस्तत्र ग्रामेऽगात्सानुयष्टिके । भद्रां च प्रतिमां तत्र भगवान् प्रत्यपद्यत ।। १४९ ।। तस्यां ह्यनशितः पूर्वं पूर्वाशाभिमुखः प्रभुः । एकपुद्गलविन्यस्तदृक् तस्थौ सकलं दिनम् ।। १५० ।। दक्षिणाभिमुखो रात्रिं पश्चिमाभिमुखो दिनम् । उत्तराभिमुखो रात्रिं षष्ठेन प्रतिमां व्यधात् ।। १५१ ।। अपारितो महाभद्रां प्रतिमां शिश्रिये प्रभुः । तस्थौ चतुरहोरात्रीं तत्र पूर्वादिदिक्क्रमात् ।। १५२ ।। दशमेन महाभद्रां कृत्वैवं प्रतिमां प्रभुः । प्रपेदे सर्वतोभद्रां द्वाविंशतितमेन सः ।। १५३ ।। प्रत्येकमप्यहोरात्रं तस्थौ दिक्षु दशस्वपि । किं तु न्यध्यायदूर्ध्वाधोद्रव्याण्यूर्ध्वाधराशयोः ।। १५४ ।। तिस्रोऽपि प्रतिमाः कृत्वा पारणाय जगद्गुरुः । आनन्दनाम्नो गृहिणः प्रविवेश निकेतनम् ।। १५५ ॥
दशमं पर्व
चतुर्थः
सर्गः
श्रीमहावीर
जिनचरितम् ।
उपसर्ग
वर्णनम् ।
11903 11