________________
त्रिषष्टिशलाकापुरुषचरिते
॥९५॥
दशमं पर्व चतुर्थः
सर्गः
श्रीमहावीरजिनचरितम् ।
ते क्रुद्धाः कुट्टयित्वा तं बद्ध्वा वंशवनेऽक्षिपन् । अमोचयंश्च पथिकास्तमन्ये करुणापराः ।। ५१ ॥ स्वामी राजगृहे गत्वा वर्षारात्रमथाष्टमम् । चतुर्मासक्षपणभूद्विविधाभिग्रहोऽकरोत् ॥ ५२ ॥ चतुर्मासावसाने तु स्वामी बहिरपारयत् । निर्जार्य कर्म मेऽद्यापि बह्वस्तीति व्यचिन्तयत् ।। ५३ ।। वज्रभूमिशुद्धभूमिलाढादिम्लेच्छभूमिषु । कर्मनिर्जरणायाऽगात् स्वामी गोशालकान्वितः ।। ५४ ।। स्वच्छन्दं तत्र च म्लेच्छाः परमाधार्मिकोपमाः । नानाविधैरुपसर्गः श्रीवीरमुपदुद्रुवुः ।। ५५ ।। जगहुः स्वामिनं केऽपि जहसुः केचिदुच्चकैः । सारमेयादिभिर्दुष्टसत्त्वैः केचिदवेष्टयन् ॥ ५६ ॥ स्वामी कर्मध्वंसकत्वादुपसगै हर्ष तैः । शल्यादित इव च्छेदैः शल्योद्धरणहेतुभिः ॥५७ ॥ कर्मक्षयसहायांस्तान्म्लेच्छान् बन्धूनिव प्रभुः । मेने ततोऽधिकान् वापि कर्मरोगभिषक् स्वयम् ।। ५८ ॥ चकम्पे साचलो मेरुर्यत्पादांगुष्ठपीडनात् । कर्मभिः पीड्यमानः सोऽप्येवं वीरो व्यवर्तत ।। ५९ ॥ शक्रेणापन्निषेधाय यः सिद्धार्थो न्ययुज्यत । गोशालोत्तरवेलायां जजृम्भे सोऽपि नान्यदा ।। ६०॥ यत्पादाग्रे किंकरन्ति लुठन्ति च मुहुर्मुहुः । सुरेन्द्रास्तेऽपि हा सर्वे तत्पीडायामुदासते ।। ६१ ।। यन्नाममंत्रमात्रेण द्रवन्ति दुरुपद्रवाः । सोऽप्युपद्रूयते क्षुद्रैः कस्य पूत्कुर्महे पुरः ।। २ ।। धिक् सुकृतानि जगतो यैः स्वामिप्रभवैरपि । कृतघ्नैर्विघ्ननिघ्नात्मा स्वामी त्रातो न दुर्विधेः ।। ६३ ॥ १ जेयं । °याज्यं । २ लाटा ।
उपसर्गवर्णनम् ।
९५॥