________________
दशमं पर्व
चतुर्थः
त्रिषष्टिशलाकापुरुषारते
॥१६॥
| सर्गः
HARIHARASHARA
श्रीमहावीरजिनचरितम् ।
जगत्त्राणक्षयसहं न स्वौजोऽप्यादृत प्रभुः । स्वौजःफलं हि गृह्णन्ति संसारसुखगृध्नवः ।। ६४ ।। अनाप्नुवन् वसतिमप्युष्णशीतादिभाजनम् । धर्मजागरिकां जाग्रत् षण्मासान् स्वाम्यवास्थितः ।। ६५ ।। नवमी प्रावृषं तत्र धर्मध्यानपरायणः । शून्यागारे द्रुतले वा स्थितः स्वाम्यत्यवाहयत् ।। ६६ ।। सगोशालस्ततः स्वामी सिद्धार्थपुरमाययौ । ततोऽपि प्राचलद् ग्रामं कूर्मग्रामाभिधं प्रति ।। ६७ ॥ मार्गे दृष्ट्वा तिलस्तम्बं गोशालः प्रभुमभ्यधात् । स्वामिन्नेष तिलस्तम्बः कच्चिन्निष्पत्स्यते न वा ? ॥६८ ।। ततो भवितव्यताया वशेन भगवानपि । त्यक्त्वा मौनं स्वयमाख्यद् भद्र निष्पत्स्यते ह्यसौ ।। ६९ ॥ सप्तापि पुष्पजीवास्तु परमस्मिन्नवस्थिताः । एकस्यामेव शिम्बायां तावन्तो भाविनस्तिलाः ।।७० ॥ तद्वचोऽश्रद्दधानेन गोशालेनोदखानि सः । तिलस्तम्बः समृत्पिडो मुमुचे चान्यतः क्वचित् ।। ७१ ।। असत्या स्वामिवाङमा भूदित्यासन्नसुरैस्तदा । वारिवृष्टिर्विचक्रे द्राक् तिलस्तम्बोऽप्युदश्वसत् ।। ७२ ॥ तत्प्रदेशेन गच्छन्त्या गोराक्रान्तः खुरेण सः । प्रविष्ट: क्लिन्नभूमध्ये सुप्रतिष्ठोऽभवत्ततः ।।७३ ।। क्रमात्प्ररुढमूलोऽभूत् क्रमाच्चोद्भिन्नकंदलः । प्रावर्तन्त तिलस्तम्बे तानि पुष्पाणि वर्धितुम् ।। ७४ ।। गोशालेनान्वीयमानो दुधिया भक्तमानिना । कूर्मग्रामाभिधे ग्रामे जगाम भगवानपि ।। ७५ ।। इतश्चास्ति धनापूर्णश्चम्पाराजगृहान्तरे । नामतो गोबरग्रामो महीमण्डलमण्डनम् ।। ७६ ।। १ शम्बा । २ गोर्वर । गोवर।
उपसर्गवर्णनम् ।
॥१६॥
SIRSASRASE