SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ दशमं पर्व चतुर्थः त्रिषष्टिशलाकापुरुषचरिते ॥१४॥ सर्गः श्रीमहावीरजिनचरितम् । गच्छतः स्वामिनोऽभूतां संमुखीनौ वधूवरौ । तत्कालजातविवाहौ सर्वतो विकृताकृती ।। ३७ ।। प्रेक्ष्य गोशालकोऽवोचदहो द्वावपि तुन्दिलौ । दन्तुरौ दीर्घचिबुकग्रीवौ चिल्लौ कुनासिकौ ।।३८ ।। अहो संयोजनौचित्यं विधातुर्यदिमावुभौ । कृतौ वधूवरत्वेन मन्ये सोऽपि कुतूहली ।। ३९ ।। एवमग्रे तयोर्भूत्वा भूयो भूयो जगाद सः । अट्टहासं च विदधे वैहासिक इवासकृत् ।। ४० ॥ वधूवरनराः क्रुद्धास्तं तस्करमिव द्रुतम् । बद्ध्वा मयूरबन्धेन चिक्षिपुर्वंशगह्वरे ।। ४१ ॥ गोशालोऽवोचत स्वामिन् ! किं मां बद्धमुपेक्षसे । कृपालुस्त्वं परजनेऽप्यसि किं न हि सेवके ।। ४२ ।। तं बभाषे च सिद्धार्थो नित्यसिद्धा विपद्धि ते । निजदुश्चरितैरेव चपलस्य करिव ।। ४३ ॥ स्वाम्यप्यदूरे गत्वाऽस्थात्तत्प्रतीक्षणकाम्यया । वधूवरनरा नाथं प्रेक्ष्य चैवं व्यचिन्तयन् ।। ४४ ।। पीठभृच्छत्रभूद्वासौ यद्वान्योऽप्यस्य सेवकः । देवार्यस्य तपोराशेर्यदेषोऽमुं प्रतीक्षते ॥ ४५ ॥ एवं विचिन्त्य तेऽमुञ्चन् गोशालं स्वाम्यपेक्षया । समं तेन व्रजन् स्वामी क्रमाद्गोभूमिमासदत् ॥४६॥ गोशाल ऊचे गोपालान्म्लेच्छा बीभत्समूर्तयः । व्रजशूरा व्रजत्येष क्व पन्थाः कथयन्तु भोः ॥ ४७ ॥ प्रत्यूचिरे च गोपालाः किमस्मान् कारणं विना । आक्रोशस्येवमध्वन्य श्वशुर्यो नासि नः खलु ।। ४८ ।। गोशालोऽप्यब्रवीद् भूयो दासेराः पशुपुत्रकाः । सहिष्यध्वे न चेयूयमाक्रोक्ष्याम्यधिकं तदा ।। ४९ ॥ स्वभावाख्यानमेतद्वो नाक्रोशोऽयं मया कृतः । किं यूयं म्लेच्छबीभत्सा इत्यलीकं मयोदितम् ? ॥ ५० ॥ उपसर्गवर्णनम् । ९४॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy