________________
त्रिषष्टिशलाका
दशमं पर्व चतुर्थः
पुरुषचरिते
॥१३॥
सर्गः श्रीमहावीरजिनचरितम् ।
प्रतिमा मल्लिनाथस्य सुधावर्तिनिभां दृशोः । अपश्यतां दम्पती तौ श्रद्धापूर्वं च नेमतुः ।। २३ ।। तावूचतुर्देव ! यदि त्वत्प्रसादाद्भविष्यति । सुतः सुता वा तच्चैत्यमुद्धरिष्यावहे तव ।। २४ ।। त्वद्भक्तौ च भविष्यावस्ततः प्रभृति सर्वदा । इत्युदित्वा जग्मतुस्तौ श्रेष्ठिनौ निजमन्दिरम् ।। २५ ।। तत्रासन्नार्हतव्यन्तर्यनुभावेन चाऽभवत् । भद्राया उदरे गर्भः श्रेष्ठिनः प्रत्ययप्रदः ।। २६ ।। गर्भाहादपि चारभ्य प्रारेभे वागुरो मुदा । तद्देवकुलमुद्धर्तुमात्मानमिव दुर्गतेः ।। २७ ।। तत्र गत्वा स्वयं मल्लिप्रतिमायाश्च वागुरः । त्रिसन्ध्यं विदधे पूजां गृहीताभिग्रहः सुधीः ।। २८ ।। तं ज्ञात्वा जिनभक्तं तु तद्वेश्मनि समाययुः । विहर्तुं साधवः साध्व्यः सोऽप्यानर्च सदैव तान् ।। २९ ।। साधूनां नित्यसंसर्गाच्छ्रेष्ठिनौ श्रेष्ठबुद्धिकौ । श्रावकत्वं प्रपेदाते विधिज्ञौ च बभूवतुः ॥ ३० ॥ इतश्च भगवान् वीरस्तस्थौ प्रतिमया स्थिरः । अन्तरे शकटमुखोद्यानस्य च पुरस्य च ॥३१ ॥ तत्र वन्दितुमायात ईशानेन्द्रो जिनेश्वरम् । ददर्श वागुरं यान्तं मल्लिबिम्बार्चनेच्छया ।।३२ ।। ईशानो वागुरं चोचे किं प्रत्यक्षं जिनेश्वरम् । अतिक्रम्याग्रतो यासि तबिम्बार्चनहेतवे ? ॥३३ ।। अयं हि भगवान् वीरश्चरमस्तीर्थकृत्स्वयम् । छद्मस्थो विहरन्नत्र वर्तते प्रतिमास्थितः ॥ ३४ ॥ मिथ्यादुष्कृतमित्युक्त्वा त्रिश्च कृत्वा प्रदक्षिणाम् । स ववन्दे विभुं भक्त्या कूर्मवत्संकुचत्तनुः ।। ३५ ।। ईशानो वागुरश्चेशं नत्वा द्वावपि जग्मतुः । उष्णाकं सन्निवेशं च प्रत्यगाद्भगवानपि ।।३६ ।।
उपसर्गवर्णनम् ।
॥९३॥