________________
दशमं पर्व
चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते
॥१२॥
| सर्गः श्रीमहावीर
जिनचरितम् ।
चपेटाभिर्मुष्टिभिश्च स जघ्ने ग्राम्यदारकैः । हत्वाऽमुंग्रहिलमलमिति वृद्धैरमोच्यत ।। १०॥ कर्मारिमर्दनः स्वामी मर्दनाख्ये निवेशने । गत्वा चाऽस्थात्प्रतिमया बलदेवनिकेतने ॥ ११ ॥ लिंगं बलमुखे दत्त्वा गोशालोऽस्थाच्च पूर्ववत् । पूर्ववत् कुट्टितो ग्राम्यैः पूर्ववच्च विमोचितः ।। १२ ॥ ग्रामेऽगाबहुशालाख्ये तपःशाली जगद्गुरुः । तत्र शालवनोद्याने तस्थौ च प्रतिमाधरः ।। १३ ।। शालाया नामतस्तत्र व्यन्तरी कारणं विना । क्रुद्धोपसर्गानकरोत् स्वामिनः कर्मघातकान् ।। १४ ॥ सा श्रान्ता नाथमानर्च नाथोऽपि विहरन् ययौ । पुरं लोहार्गलं राज्ञाऽधिष्ठितं जितशत्रुणा ।। १५ ।। तस्य राज्ञोऽन्येन राज्ञा विरोधः समभूत्तदा । आयान् स्वामी सगोशालस्तत्पुंभिश्च पथीक्षितः ।। १६ ।। नोचे किंचिद्यदा स्वामी पृष्टस्तै राजपूरुषैः । तदानी हेरिक इति जितशत्रोः समर्पितः ।। १७ ।। पूर्वायातोऽस्थिकग्रामादुत्पलो नाथमैक्षत । ववन्दे च यथावस्थं जितशत्रोः शशंस च ।। १८ ॥ राज्ञाऽपि वन्दितो भक्त्या विहरन् भगवान् ययौ । पुरे पुरिमतालाख्ये तत्र चेदं पुराऽभवत् ।। १९ ।। तत्रासीद्वागुरः श्रेष्ठी धनी भद्रा च तत्प्रिया । वन्ध्या श्रान्ता सुतकृते दत्तैर्देवोपयाचितैः ॥२०॥ श्रेष्ठिनौ शकटमुखोद्याने तावन्यदा गतौ । चिरं चिक्रीडतुर्देवाविव पुष्पोच्चयादिना ।।२१ ॥ भ्रमन्तौ क्रीडया तत्र जीर्णमायतनं महत् । दृष्ट्वा कौतूहलान्मध्येऽविशतां तावुभावपि ।। २२ ।। १र्या ।
उपसर्गवर्णनम् ।
॥९२॥
RRES