________________
चतुर्थः सर्गः ।
दशमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
॥९१॥
चतुर्थः सर्गः
श्रीमहावीरजिनचरितम् ।
उपसर्गवर्णनम् ।
अथ स्वामी महावीरो गोशालेनानुसेवितः । मासानष्टानुपसर्ग व्याहार्षीन्मगधावनौ ॥१॥ पुरीमालभिकां गत्वा सप्तमी प्रावृष प्रभुः । चतुर्मासक्षपणभृद्वीरस्वाम्यत्यवाहयत् ॥२॥ चतुर्मासावसाने च पारयित्वा बहिः प्रभुः । गोशालसंयुतोऽगच्छत् कुंडके सन्निवेशने ॥३॥ तत्र स्वामी वासुदेवायतनस्यैककोणके । तस्थौ प्रतिमया रत्नप्रतिमेव निवेशिता ॥ ४ ॥ निर्दीः प्रकृत्या गोशालश्चिरसलीनताऽऽतुरः । न्यस्य विष्णुप्रतिमाऽऽस्येऽधिष्ठानं समवास्थित ।। ५ ।। आयातश्चार्चको दृष्ट्वा तं तथास्थमचिन्तयत् । पिशाचः कोऽप्यसौ नूनं ग्रहात्तः कोऽपि वा भवेत् ॥ ६ ॥ एवं विचिन्त्यायतने प्रविष्टस्तं निरीक्ष्य सः । नग्नत्वाच्छ्रमणो मन्ये कोऽप्यसावित्यलक्षयत् ॥७॥ एवं च दध्यौ यद्येनं हनिष्यामि तदा जनः । वदिष्यत्यमुना दुष्टेनादोषो धार्मिको हतः ।।८।। करोतु ग्राम एवास्योचितमाख्यामि तत्पुरः । इति गत्वा समानैषीग्रामं तद्दर्शनाय सः ।।९।।। युग्मम्।। १. कुंडाके । २ °म्यास्त । टि.- "पुरुषचिह्नम् ।