SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ॥९० ॥ बभूव चावधिज्ञानं श्रीवीरस्वामिनोऽधिकम् । अनुत्तरस्थितस्येव सर्वलोकावलोकनम् ।। ६२२ ।। सहजं त्ववधिज्ञानं यावद्देवभवेऽभवत् । एकादशांगीसूत्रार्थभृत्त्वं च चरमार्हतः ।। ६२३ ।। शान्ता निशान्ते सा सानुतापा च कटपूतना । पूजयित्वा प्रभुं भक्त्या निजं स्थानमुपाययौ ।। ६२४ ॥ अथ गत्वा भद्रिकायां पुर्यां तस्थौ तपः परः । दीक्षायाः प्रावृषं षष्ठीमतिवाहयितुं प्रभुः ।। ६२५ ।। गोशालस्तत्र मिलितः षष्ठमासाज्जगद्गुरोः । सेवां कुर्वन् प्राग्वदस्थात् प्रत्यहं प्रीतमानसः ।। ६२६ ॥ विविधाभिग्रहपूर्वकं चतुर्मासक्षपणं तत्र च प्रभुः । कृत्वा वर्षारात्रनिर्गमे विदधे पारणकं पुरो बहिः ॥ ६२७ ॥ ܀܀܀܀܀ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये दशमपर्वणि श्रीमहावीरप्रथमषड्वर्षछद्मस्थविहारवर्णनो नाम तृतीयः सर्गः । ܀ ܀ ܀ ܀ ܀ दशमं पर्व तृतीयः सर्गः श्रीमहावीर जिनचरितम् । उपसर्गवर्णनम् । ॥९०॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy