________________
त्रिषष्टिशलाकापुरुषचरिते
॥८९॥
दशमं पर्व तृतीयः सर्गः श्रीमहावीरजिनचरितम् ।
तस्यैव तं धनं मूर्ध्नि स्वशक्त्याऽपातयद्धरिः । कथंचिद्रोगमुक्तोऽपि जगाम स यमालयम् ।। ६१० ।। प्रणम्य स्वामिनं शक्रः कल्पं सौधर्ममभ्यगात् । स्वामी च विहरन् प्राप ग्रामाकं सन्निवेशनम् ।। ६११ ॥ बिभेलकाभिधानस्य तत्र यक्षस्य सद्मनि । बिभेलकोद्यानस्थेऽस्थात् कायोत्सर्गधरः प्रभुः ।। ६१२ ॥ स यक्षः प्राग्भवस्पृष्टसम्यक्त्वोऽपूजयत्प्रभुम् । दिव्यैः पुष्पांगरागाद्यैरनुरागाधिवासितः ।। ६१३ ॥ ग्रामेऽथ शालिशीर्षेऽगात्तत्र च त्रिजगत्प्रभुः । उद्यानेऽस्थात्प्रतिमया माघमासस्तदा त्वभूत् ॥ ६१४ ॥ वानमन्तरिका तत्र नामतः कटपूतना । त्रिपृष्ठजन्मनि विभोः पत्नी विजयवत्यभूत् ।। ६१५ ।। सम्यगप्रतिचरिता सामर्षेव सती मृता । भ्रान्त्वा भवान् सा मानुष्यं प्राप्य बालतपोऽकरोत् ।। ६१६ ।। सा तत्र व्यन्तरीभूता स्वामिनः पूर्ववैरतः । तेजोऽसहिष्णुळकरोत्तापसीरुपमग्रतः ।। ६१७ ।। जटाभृद्वल्कलधरा हिमशीतेन पाथसा । आर्द्रयित्वा वपुस्तस्थावुपरिष्टाज्जगत्प्रभोः ।। ६१८ ।। ततो वातं विकृत्याङ्गान्यधुनोच्छल्लकीव* सा । जिने पेतुः शलानीव' दुःसहाश्चाम्बुबिन्दवः ।। ६१९ ॥ जटाग्राद्वल्कलाग्राच्च पतन्तस्तोयबिन्दवः । चिक्लिशु थमन्यश्चेद्भवेन्नूनं स्फुटेत्तदा ।। ६२०॥ भर्तः शीतोपसर्ग तं सहमानस्य तां निशाम । विशेषात कर्मक्षपणं धर्मध्यानमदीप्यत ।। ६२१ ॥ १°मर्षा च । २ समानु। टि.- "शाहुडी' इति भाषायाम् 'शल्लकीपिच्छानि ।
PRASTAHARASHTRA
उपसर्गवर्णनम् ।
||८९॥