________________
त्रिषष्टि
शलाका
पुरुष
॥८८॥
वृक्षारुढश्चौरपुमान् गृध्रवद् दूरतोऽपि तम् । ददर्शाख्यच्च चौराणां नग्नः कोऽप्यैत्यकिंचनः ।। ५९७ ।। तेऽप्यचिरे तथाप्येष न मोच्यः स्याच्चरोऽप्ययम् । किं चैष नः पराभूय यातीदमपि नोचितम् ॥ ५९८ ॥ एवं चाभ्यर्णमायातं गोशालं मातुलेहि भोः । वदन्तः पृथगिति तेऽध्यारुह्य तमवाहयन् ।। ५९९ ॥ पृथक् पृथग्वाहनया तेषां गोशालकोऽभवत् । श्वासशेषवपुस्ते च चौराः प्रययुरन्यतः ।। ६०० ।। अचिन्तयच्च गोशालो विपत्प्रथमतोऽप्यसौ । शुनेव स्वामिहीनेन मया लब्धाऽद्य दुःसहा ॥। ६०१ ।। भर्तुश्च विपदं घ्नन्ति देवाः शक्रादयोऽपि हि । तत्पादशरणस्थस्य ममापि विपदोऽत्यगुः ।। ६०२ ॥ क्षमं स्वयमपि त्रातुमुदासीनं तु कारणात् । मन्दभाग्यो निधिमिव तं प्राप्स्यामि कथं पुनः ।। ६०३ ॥ अन्वेष्यामि तमेवेति निश्चित्यातीत्य तद्वनम् । गोशालोऽश्रान्तमभ्राम्यत् प्रभुपाददिदृक्षया ।। ६०४ ।। स्वामी जगाम वैशाल्यां शालां कर्मारसंश्रिताम् । अनुज्ञाय जनांस्तत्स्थांस्तस्थौ च प्रतिमाधरः ।। ६०५ ।। कर्मारो रोगितश्चैकः षण्मास्या कल्यतां गतः । शुभेऽहनि स्वजनेन वृतः शालामियाय ताम् ।। ६०६ ॥ तत्राग्रे स्वामिनं दृष्ट्वा सोऽचिन्तयदहो इदम् । प्रथमेऽप्यह्नि पाखण्डिदर्शनाशकुनं मम ॥ ६०७ ॥ इहैवामंगलमिदं पातयामीत्ययोघनम् । उत्पाट्य स्वामिनं हन्तुं सोऽधावत दुराशयः ।। ६०८ ।। क्व स्वामीति तदा ज्ञातुं प्रायुंक्त मघवाऽवधि । जिघांसुं तं च कर्मारमपश्यच्चाजगाम च ।। ६०९ ॥ १ " तुलैव भोः। " तुलो हि भोः ।
दशमं पर्व
तृतीयः
सर्गः
श्रीमहावीर
जिनचरितम् ।
उपसर्ग
वर्णनम् ।
॥८८॥