________________
त्रिषष्टिशलाकापुरुषचरिते
॥८७॥
| दशमं पर्व | तृतीयः सर्गः श्रीमहावीरजिनचरितम् ।
पार्शशिष्ये च प्रगल्भाविजये प्रोज्झितव्रते । निर्वाहाय परिवाट्त्वं प्रपन्ने तत्र तिष्ठतः ।। ५८३ ॥ वार्तामाकर्ण्य तां मा भूद्वीरोऽर्हन्निति शंकया । तत्रेयतुस्तथास्थं च भगवन्तमपश्यताम् ।।५८४।। ।। युग्मम्।। ते स्वामिनं ववन्दाते आरक्षांश्चेवमूचतुः । रे मूर्खा ! किं न जानीथ वीरं सिद्धार्थनन्दनम् ।।५८५ ।। शीघ्रं मुञ्चत चेज्ज्ञाता शक्रो व्यतिकरं ह्यमुम् । पातयिष्यति वो मूर्जि वजं प्राणहरं तदा ।। ५८६ ।। अथ तैश्चकितैर्मुक्तः क्षमितश्च प्रभुः पुरीम् । वैशाली प्रति चचाल द्वौ मार्गों स्तस्तदन्तरे ।। ५८७ ॥ तत्रावोचत गोशालो न यास्यामि त्वया समम् । मां हन्यमानमपि यत्त्वं तटस्थ इवेक्षसे ।। ५८८ ॥ अन्यत्तवोपसर्गः स्युरुपसर्गा ममापि हि । यदग्नि: शुष्कसंसर्गाद्दहत्यामपि क्षणात् ।। ५८९ ।। अन्यच्च लोको मामादौ निहन्ति त्वां ततः खलु । क्लेशाद्भोजनवृत्तिश्च जायते वा न वा मम ।। ५९० ॥ ग्रावखंडे च रत्ने चारण्ये च नगरेऽपि च । आतपे मंडपे चापि वह्नौ च सलिलेऽपि च ।। ५९१ जिघांसौ सेवके चापि निर्विशेषस्य ते ननु । सेवा को नाम कुर्वीत न योऽहमिव मूढधीः ।।५९२ ।। ।।युग्मम्)।। त्वत्सेवा तालसेवेव मया भ्रान्तेन या कृता । सा स्मर्तव्याऽतः परं तां करिष्यामि न खल्वहम् ।। ५९३ ॥ सिद्धार्थोऽथावदत्तुभ्यं रोचते यत्कुरुष्व तत् । इयमेव हि नः शैली सा भवेज्जातु नान्यथा ॥५९४ ।। ततो जगाम भगवान् वैशालीगामिनाध्वना । प्रचचाल च गोशाल एको राजगृहाध्वना ।। ५९५ ।। गोशालोऽयान्महारण्यं चौरपंचशतान्वितम् । विवेश मूषक इव सर्पाकीणं महाबिलम् ।। ५९६ ॥ १°संपर्काइ ।
उपसर्गवर्णनम् ।
||८७॥