________________
दशमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
॥८६॥
तृतीयः सर्गः श्रीमहावीरजिनचरितम् ।
भुञ्जानस्तत्र गोशालः पिशाच इव नाऽतृपत् । ग्राम्याः स्थालं महत् सर्वान्नपूर्ण तस्य चार्पयन् ।। ५७० ।। तद्भक्तमखिलं भोक्तुं गोशालो न ह्यभूत्क्षमः । आकंठमात्राहारो यदाचामेऽप्यलसायते ।। ५७१ ।। स्वाहारशक्तेरप्यज्ञः किं दुष्कालोऽसि मूर्तिमान् ? । इत्युक्त्वा चिक्षिपुर्भक्तस्थालं तन्मूर्ध्नि तज्जनाः ॥५७२ ।। तुन्दं परामृशंस्तृप्त्या गोशालोऽगाद्यथागतम् । जम्बूखण्डाभिधं ग्रामं जगाम भगवानपि ।। ५७३ ॥ प्रतिमास्थे प्रभौ तत्रास्तारिकाभक्तलिप्सया । गतो गोशालकः प्राग्वत्प्राप भोजनधर्षणे ॥ ५७४ ।। क्रमेण प्रययौ स्वामी तुंबाके सन्निवेशने। बहिश्चास्थात्प्रतिमया गोशालो ग्राममभ्यगात् ।। ५७५ ।। तत्र पार्श्वशिष्यान्नन्दिषेणान् वृद्धान् बहुश्रुतान् । परिवारभृतो मुक्त्वा गच्छचिन्तामशेषतः ।। ५७६ ।। जिनकल्पप्रतिकर्म प्रपन्नान्मुनिचन्द्रवत् । दृष्ट्वा जहास गोशालः स्वाम्यभ्यर्णमगात्पुनः ।। ५७७ ।। ।। युग्मम्।। नक्तं चतुष्के ते तस्थुर्नन्दिषेणमहर्षयः । कायोत्सर्गभृतो धर्मध्यानस्थाः स्थाणुवस्थिराः ॥ ५७८ ।। आरक्षेण च दृष्टास्ते चौरभ्रान्त्या च जनिरे । सद्यो जातावधिज्ञाना मृत्वा दिवमुपासदन् । ५७९ ॥ प्रेक्ष्य गोशालकस्तेषां महिमानं कृतं सुरैः । तच्छिष्याणामुपेत्याऽख्यदुच्चैर्भर्त्सनपूर्वकम् ।। ५८०॥ अथाऽगाद्विहरन् वीरः कूपिकां सन्निवेशनम् । तत्रारक्षः सगोशालः स्पशभ्रान्त्या कदर्थितः ॥५८१ ।। देवार्यो रुपवान् शान्तो युवारक्षैः स्पशभ्रमात् । निरागास्ताड्यमानोऽस्तीत्युल्लापोऽभूज्जनेऽखिले ।। ५८२ ।। १°माना।
उपसर्गवर्णनम् ।
| ॥८६॥