________________
दशमं पर्व तृतीयः
त्रिषष्टिशलाकापुरुषचरिते
॥८५॥
सर्गः श्रीमहावीरजिनचरितम् ।
मुण्ड इत्यहनन् केऽपि *स्पश इत्यपरेऽधरन् । बबन्धुर्दस्युरित्येके श्रीवीरं तत्र पुरुषाः ।। ५५७ ।। भषणान्मुमुचुः केऽपि प्रतिस्वामि कुतूहलात् । चक्रुः स्वरुच्या निशंकमन्येऽन्याश्च विडम्बनाः ॥ ५५८ ।। अमोदतोपसर्गस्तैः कर्मणां क्षपणात्प्रभुः । अत्युग्रैर्भेषजै रोगी रोगनिग्रहणादिव ।। ५५९ ।। गोशालोऽप्यनुलग्नः सन् सेहे विविधवेदनाः । बन्धनताडनाद्युत्था वनानीत इव द्विपः ।। ५६० ।। तत्रैवं भूरिशः कृत्वा कर्मनिर्जरणां प्रभुः । कृतकृत्य इवाचालीदार्यदेशस्य संमुखम् ।। ५६१ ॥ यान्तं च स्वामिनं पूर्णकलशग्रामसन्निधौ । प्रवेष्टुकामौ लाढोया तस्करौ द्वावपश्यताम् ।। ५६२ ।। तावसौ दुःशकुनमित्युद्यतासी जिघांसया । प्रति प्रभुं दधावाते प्रेतावुत्कत्रिकाविव ।। ५६३ ।। वर्ततेऽद्य कथं स्वामीत्युच्चिन्तो वज्रभृत्तदा । ददर्शावधिना नाथं जिघांसू तौ च तस्करौ ।। ५६४ ।। तौ वजेणावधीद्वजी वज्रशैलक्षमौजसा । दन्तिक्षोदक्षमेणेव पाणिना हरिणौ हरिः ।। ५६५ ।। क्रमेण भद्दिलपुरे स्वाम्यगात्तत्र पंचमीम् । निन्ये वर्षाचतुर्मासी चतुर्मासीमुपोषितः ।। ५६६ ॥ पारयित्वा बहिः क्वापि विहरंश्च प्रभुः क्रमात् । ग्रामे जगाम कदलीसमागम इतीरिते ।। ५६७ ।। तत्राथास्तारिकाभक्तं' दीयमानं तदाऽर्थिनाम् । विलोक्योवाच गोशालो स्वामिन्नेह्यत्र भुज्यताम् ।। ५६८ ॥ सिद्धार्थोऽभिदधेऽस्माकमुपवासोऽद्य वर्तते । भोक्ष्येऽहमेकोऽपीत्युक्त्वा तत्र गोशालको ययौ ॥५६९ ॥ १ लाये। टि-स्पशः गुप्तचरः । * सदाव्रभोजनम् ।।
उपसर्गवर्णनम् ।
॥८५॥